इतिहासपृष्ठेषु 3 नवम्बरमासः, १९४८ तमे वर्षे नेहरु संयुक्तराष्ट्रमहासभायाम् प्रथमं भाषणं दत्तवान्
तृतीयदिनाङ्के नवम्बरमासस्य १९४८ तमे वर्षे भारतस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरु संयुक्तराष्ट्रमहासभायाः विशेष–अधिवेशने स्वस्य प्रथमं भाषणं दत्तवान्। एतत् भाषणम् स्वातन्त्र्यप्राप्तभारतस्य संयुक्तराष्ट्रे प्रथमम् औपचारिकं वक्तव्यम् आसीत्।
संयुक्त राष्ट्र महासभा में पंडित नेहरू का पहला संबोधन


तृतीयदिनाङ्के नवम्बरमासस्य १९४८ तमे वर्षे भारतस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरु संयुक्तराष्ट्रमहासभायाः विशेष–अधिवेशने स्वस्य प्रथमं भाषणं दत्तवान्।

एतत् भाषणम् स्वातन्त्र्यप्राप्तभारतस्य संयुक्तराष्ट्रे प्रथमम् औपचारिकं वक्तव्यम् आसीत्।

नेहरु स्वभाषणे विश्वशान्तेः, अहिंसाया:, अन्ताराष्ट्रीयसहकारस्य, उपनिवेशवादविरोधस्य च महत्त्वम् अवोचत्।

ते अवदन् — “शान्तिः कदापि द्वेषहिंसयोः आधारेण स्थापयितुं न शक्या।”

भारतदेशः सदा संयुक्तराष्ट्रसंविधानस्य सिद्धान्तानाम् उद्देश्यानां प्रति स्वनिष्ठां प्रदर्शितवान्।

एतस्मिन् भाषणे नेहरु कश्मीरविवादस्य अपि उल्लेखं कृतवान्, यः १९४७–४८ तस्य युद्धस्य अनन्तरं अन्ताराष्ट्रीयस्तरे चर्चायाः विषयः जातः।

ते स्पष्टीकृतवन्तः यत् भारतम् न्यायेन, समानतया, संवादेन च समस्याः समाधातुं विश्वासं करोति।

---

प्रमुखाः घटनाः।

१३९४ – फ्रांसराजा चार्ल्सषष्ठ इत्यनेन यहूदीन् फ्रांसदेशात् निष्कासिताः।

१४९३ – क्रिस्टोफरकोलम्बसः डोमिनिका नामकं द्वीपं अगच्छत्।

१६५५ – इङ्ग्लण्डफ्रांसयोः मध्ये सैन्य–आर्थिकसन्धिः सम्पन्ना।

१७६२ – ब्रिटनस्पेनयोः मध्ये पेरिससन्धिः अभवत्।

१७९६ – जॉन–एडम् अमेरिकायाः राष्ट्रपतिः अभवत्।

१८३८ – द टाइम्स् ऑफ् इण्डिया इत्यस्य स्थापना अभवत्।

१८५७ – नानारावस्य मथुरास्थितसम्पत्तेः विनाशाय शासन–आज्ञा दत्ता।

१८६९ – केनडादेशे हैमिल्टन–फुटबॉलसंघः स्थापितम्।

१९०३ – पनामादेशः कोलम्बियात् स्वातन्त्र्यम् अलभत।

१९११ – लुईशेवरले, विलियमडुरण्टौ च शेवरलेमोटरसंस्थाम् आरब्धवन्तौ।

१९३८ – असमहिन्दीप्रचारसमिति: इत्याख्या संस्था संस्थापिता।

१९४८ – भारतस्य तदा–प्रधानमन्त्री जवाहरलालनेहरु संयुक्तराष्ट्रमहासभायां प्रथमं भाषणम् अवदत्।

१९५७ – सोवियतसंघेन “लैका” नाम्नी मादाश्वान् अन्तरिक्षं प्रेषिता, या अन्तरिक्षं प्राप्ता प्रथमजीवः आसीत्।

१९५८ – तदानीं सोवियतसंघेन परमाणुपरीक्षणं कृतम्।

१९६२ – चीनस्य आक्रमणं दृष्ट्वा भारतदेशे स्वर्णरोधकयोजना उद्घोषिता।

१९८४ – भारतदेशे सिखविरोधीप्रकरणेषु त्रिसहस्राधिकाः जनाः मृताः।

१९८८ – वायुसेनया आग्रात् पराशूटदलस्य प्रक्षेपणं कृतम्।

१९८८ – भारतीयसशस्त्रसेनया मालदीपदेशे जातं सैन्यविद्रोहं निवार्य तत्र सर्वकाराय सहायं दत्तम्।

१९९२ – एच्. डब्ल्यू. बुशं विजित्य बिल् क्लिन्टनः अमेरिकायाः द्विचत्वारिंशः राष्ट्रपतिः अभवत्।

१९९७ – जी–१५ समूहस्य सप्तमः शिखरसम्मेलनः कुआलालम्पुरे आरब्धः।

२००० – भारतसर्वकारेण प्रत्यक्षगृहप्रसारणसेवा सर्वेषां कृते आरब्धा।

२००१ – अमेरिकादेशेन लष्कर्–ए–तैयबा, जैश्–ए–मुहम्मद् च प्रतिबन्धितौ।

२००२ – नखोमपाथोम–सभायां लिट्टे–संघः राजनीतिकमुख्यधारायां सम्मिलितुम् इच्छां प्रकटयत्।

२००३ – पाकिस्तानचीनयोः मध्ये बीजिंगे अष्टौ सन्धयः सम्पन्नाः।

२००४ – अफ्गानराष्ट्रे प्रथमराष्ट्रपतिनिर्वाचने हामिदकरजै विजयी घोषितः।

२००६ – भारतबेल्जियमदेशयोः मध्ये सामाजिकसुरक्षा–आश्वासनसन्धिः अभवत्।

२००७ – पाकिस्तानपीपुल्स्पार्टी इत्यस्याः नेत्री बेनजीरभुट्टो गृहनिग्रहे स्थिता।

२००७ – पाकिस्तानराष्ट्रपतिः परवेजमुशर्रफः संविधानं रद्दीकृत्य आपत्कालम् उद्घोषितवान्।

२००८ – यूनियन् बैंक् ऑफ् इण्डिया स्वस्य ऋणदरं ०.५ प्रतिशतं न्यूनम् कृतवान्।

२०११ – फ्रांसदेशे कैन्सनगरस्य जी–२० शिखरसम्मेलनम् आरब्धं, यत्र यूरोक्षेत्रस्य ऋणसंकटं विचारितम्।

२०१४ – अमेरिकायां २००१ तमे वर्षे विनष्टस्य विश्वव्यापारकेन्द्रस्य स्थले नूतनं 'वर्ल्ड् ट्रेड् सेन्टर्' उद्घाटितम्।

जन्मानि।

१६८८ – सवाई जयसिंहः — आमेरनरेशः, प्रसिद्धः कूटनीतिज्ञः च।

१८९० – एच्. जे. कनिया — स्वातन्त्र्यभारतस्य प्रथमः मुख्यन्यायाधीशः।

१९०६ – पृथ्वीराजकपूरः — हिन्दीचलच्चित्ररङ्गमञ्चयोः इतिहासपुरुषः, ‘पृथ्वीथिएटर्’ स्थापकः।

१९३३ – अमर्त्यसेनः — अर्थशास्त्रस्य नोबेलपुरस्कारविजेता।

१९३७ – लक्ष्मीकान्तः — हिन्दीचलच्चित्रसङ्गीतनिर्माता।

१९५६ – स्वामीचिन्नजियरः — आध्यात्मिकव्यक्तित्व:।

१९७६ – मानवजीतसिंहसन्धुः — भारतीयः श्रेष्ठः लक्ष्यवेधी (ट्रेप्–शूटिङ्)।

निधनानि ।

१९३६ – चिदम्बरपिल्लै — तमिळभाषाविद्, प्रसिद्धः समाजसुधारकः।

१९४७ – दीवान्सिंहदानू — ‘महावीरचक्र’–सम्मानितः भारतीयसैनिकः।

१९४७ – सोमनाथशर्मा — ‘परमवीरचक्र’ प्राप्तः प्रथमः भारतीयशहीदः।

१९७७ – भगवंतरावमण्डलोई — मध्य–प्देशस्य भूतपूर्वद्वितीयः मुख्यमंत्री।

२००८ – ललितमोहनशर्मा — भारतस्य भूतपूर्वः चतुर्विंशः मुख्यन्यायाधीशः।

२०१३ – रेशमा — प्रसिद्धा लोकगायिका।

विशेष–अवसरः ।

अन्ताराष्ट्रियरक्तक्रॉससप्ताहः

हिन्दुस्थान समाचार / ANSHU GUPTA