Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 2 नवंबरमासः (हि.स.)। कांग्रेसदलेन बिहारविधानसभानिर्वाचनस्य द्वितीयचरणाय स्वीयानां मुख्यप्रचारकानां नामावलिः प्रकाशिता। अस्मिन् सूच्यां चत्वारिंशदधिकाः नेतारः अन्तर्भूताः सन्ति, येषां मध्ये दलस्य सर्वोच्चनेतृत्वं यावत् अनेके राज्येषु भूतपूर्वमुख्यमन्त्रिणः अपि सम्मिलिताः सन्ति।
दलाध्यक्षः मल्लिकार्जुनखरगे, सोनियागान्धी, राहुलगान्धी, प्रियंकागान्धीवाड्रा च संगठनमहासचिवः के.सी. वेणुगोपालः इत्येते प्रमुखाः स्टार्–प्रचारकाः सन्ति।
एतेषां अतिरिक्तं अशोकगहलोत्, भूपेशबघेलः, सुखविन्दरसिंहसुक्खू च इति भूतपूर्वमुख्यमन्त्रिणः अपि सूच्यां गृहीताः।
सूच्यां कांग्रेसदलस्य वरिष्ठनेतारः दिग्विजयसिंहः, अधीररञ्जनचौधुरी, मीरा कुमारी, सचिन्पायलट्, रणदीपसुरजेवाला, गौरवगोगोई, तारिकअन्वर इत्यादयः प्रसिद्धाः व्यक्तयः अपि अन्तर्भूताः।
युवनेतृणां नूतनानां च मुखानां मध्ये कन्हैयाकुमारः, इमरानप्रतापगढी, सुप्रिया श्रीनेत्, जिग्नेशमेवाणी इत्येतेषां नामानि अपि स्थापितानि सन्ति।
बिहारप्रदेशीयनेतृभ्यः मध्ये मदन्मोहनझा, शकीलअहमदखान, अखिलेशप्रसादसिंह, राजेशकुमारराम इत्येते प्रमुखतया सूच्यां निर्दिष्टाः।
एतेषां सह राजेशरञ्जनः (पप्पूयादवः), प्रमोदतिवारी, शकीलअहमदः, सुबोधकान्तसहायः, अजयरायः इत्येते अपि अस्मिन् नामावलौ अन्तर्भूताः सन्ति।
हिन्दुस्थान समाचार