रायपुरम् : उपमुख्यमंत्री अरुण सावोऽद्य बस्तरभ्रमणे , राज्योत्सव उद्घाटन समारोहे सम्मेलिष्यते
रायपुरम् 2 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य उपमुख्यमन्त्री अरुणसावः अद्य रविवासरे बस्तरजिलायाः दौरे भविष्यति। अस्मिन् अवसरे सः जगदलपुरे आयोजिते राज्योत्सवस्य उद्घाटनसमारोहे भागं ग्रहीष्यति। उपमुख्यमन्त्रिणः कार्यालयात् प्राप्तसूचनां अनुसारं अरु
उपमुख्यमंत्री अरुण साव


रायपुरम् 2 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य उपमुख्यमन्त्री अरुणसावः अद्य रविवासरे बस्तरजिलायाः दौरे भविष्यति। अस्मिन् अवसरे सः जगदलपुरे आयोजिते राज्योत्सवस्य उद्घाटनसमारोहे भागं ग्रहीष्यति।

उपमुख्यमन्त्रिणः कार्यालयात् प्राप्तसूचनां अनुसारं अरुणसावः अद्य प्रातः दशवादनं पञ्चचत्वारिंशद्विनिमिषे नवरायपुरस्थितात् निवासात् कारयानेन स्वामीविवेकानन्दविमानतलं रायपुरं प्रति गमिष्यति। ततः प्रातः एकादशवादनं पञ्चदशविनिमिषे राज्यविमानेन सः जगदलपुरस्य माँ दन्तेश्वरीविमानतलं प्रति प्रस्थितो भविष्यति।

द्वादशवादनं समये जगदलपुरं प्राप्त्वा सः नगरमैदानं गमिष्यति, यत्र छत्तीसगढ़राज्योत्सवस्य उद्घाटनसमारोहे भागं ग्रहीष्यति। कार्यक्रमस्य अनन्तरं सः मध्यान्हे एकवादनं पञ्चदशविनिमिषात् द्विवादनं यावत् सर्किटगृहजगदलपुरे विश्रान्तिं करिष्यति। ततः द्विवादने सः सर्किटगृहात् माँ दन्तेश्वरीविमानतलं प्रति गमिष्यति, द्विवादनं पञ्चदशविनिमिषे राज्यविमानेन रायपुरं प्रति प्रयास्यति।

मध्यान्हे त्रिवादने रायपुरं प्राप्त्वा उपमुख्यमन्त्री अरुणसावः कारयानेन स्वनिवासं (एम-6, सेक्टर 24, नवरायपुर) प्रति प्रतिनिवर्तिष्यति।

उल्लेखनीयम् यत् बस्तरजिलायां द्वितीयात् चतुर्थदिनं यावत् नवम्बरमासस्य जिला मुख्यालये जगदलपुरे सिटिग्राउण्डे कार्यक्रमाः आयोजयिष्यन्ते। राज्यस्थापनादिनस्य अवसरि “पञ्चविंशतिवर्षाणां राज्यविकासयात्रा” इत्यस्मिन् विषयाधारेण विभागीययोजनानां प्रदर्शनी सह स्थानीयकलाकाराणां शैक्षिकबालकानां च सांस्कृतिककार्यक्रमाः, लोकनृत्यप्रस्तुतयः हस्तशिल्पप्रदर्शनानि च आयोजनं भविष्यति।

राज्योत्सवकार्यक्रमाः जनसहभागितया पारम्परिकगौरवेण च गरिमायुक्तरूपेण आयोजयिष्यन्ते, यथा प्रदेशस्य संस्कृतिः विकासः एकता च सर्वत्र प्रचारिताः स्युः।

---------------

हिन्दुस्थान समाचार