इसरो एकम् इतोऽपि कीर्तमानं रचितुं समीपे विद्यते,अद्य सायं संचार उपग्रह सीएमएस-03 इत्यस्य प्रेपणस्य सज्जाः पूर्णाः
नव दिल्ली, 2 नवंबरमासः (हि.स.)।भारतीयअन्तरिक्षअनुसन्धानसंस्था (इसरो) इत्येषा अन्तरिक्षक्षेत्रे सफलतायाः नूतनं अध्यायं लिखितुं सज्जा अस्ति। अस्याः संस्थायाः वैज्ञानिकैः 4000 किलोग्रामात् अधिकभारयुक्तः सञ्चारउपग्रहः ‘सीएमएस–3’ नामकः प्रक्षेपणार्थं सम
इसरो आज संचार उपग्रह CMS-03 लॉन्च करेगा


नव दिल्ली, 2 नवंबरमासः (हि.स.)।भारतीयअन्तरिक्षअनुसन्धानसंस्था (इसरो) इत्येषा अन्तरिक्षक्षेत्रे सफलतायाः नूतनं अध्यायं लिखितुं सज्जा अस्ति। अस्याः संस्थायाः वैज्ञानिकैः 4000 किलोग्रामात् अधिकभारयुक्तः सञ्चारउपग्रहः ‘सीएमएस–3’ नामकः प्रक्षेपणार्थं सम्पूर्णतया सिद्धः कृतः। अयं उपग्रहः रविवासरे सायं पञ्चवादने विंशत्यधिकषट् (5:26) मिनिटे आन्ध्रप्रदेशे श्रीहरिकोटास्थिते सतीशधवनअन्तरिक्षकेन्द्रात् प्रक्षेपितः भविष्यति।

प्रक्षेपणात् पूर्वं इसरो–अध्यक्षः नारायणननामकः वैज्ञानिकदलस्य सह नेतृत्वं कृत्वा भगवानं श्रीवेंकटेश्वरं प्रति उपग्रहस्य सफलप्रक्षेपणाय आशीर्वादं प्रार्थितवान्।

4000 किलोग्रामात् अधिकभारयुक्तः अयं सञ्चार–उपग्रहः ‘सीएमएस–3’ अद्य प्रक्षेपणाय पूर्णतः सज्जः अस्ति। इसरो–प्रकटनुसारं ‘सीएमएस–3’ इति उपग्रहः बहुव्यापक–बन्ध–सञ्चार–उपग्रहः अस्ति, यः भारतीयभूमिं सहितं विस्तीर्णं सागरीयप्रदेशं च सेवां दास्यति। अस्य भारः प्रायः 4400 किलोग्रामः अस्ति, च एषः उपग्रहः भारतभूमितः जियोसिन्क्रोनस–ट्रान्स्फर–कक्षायाम् (GTO) प्रक्षिप्यमाणः सर्वाधिकभारयुक्तः सञ्चार–उपग्रहः भविष्यति।

अस्य उपग्रहस्य पेलोड्–भागे C, विस्तारित–C, Ku बन्धेषु वाणी, दत्तांश, चित्रसंप्रेषण–सेवायै उपयुक्ताः ट्रान्सपाण्डर्–यन्त्राणि संलग्नानि सन्ति।

---------------

हिन्दुस्थान समाचार