Enter your Email Address to subscribe to our newsletters

पटनानगरम् , 02 नवम्बरमासः (हि.स.)।
बिहारविधानसभानिर्वाचनस्य उत्कटपरिस्थितौ मोकामाप्रदेशे दुलारचन्दयादवहत्याप्रकरणे आरक्षकदलेन महद्कार्यं कृतम्।
रात्रेः अन्ते पट्नायाः आरक्षकदलः पूर्वबाहुबलीविधानसभासदस्यं जनतादलैक्यस्य अभ्यर्थिनं च अनन्तसिंहं बाढ़नगरस्थिते कारगिलविपणिनामके स्थाने गृहीत्वा पट्नां नीतवान्।
तस्य द्वौ सहयोगिनौ मणिकान्तठाकुरः रणजीतरामश्च अपि गृहीतौ। एते त्रयः अपि अद्य न्यायालये प्रस्तुताः भविष्यन्ति।
दुलारचन्दयादवहत्याप्रकरणस्य सन्दर्भे जनतादलैक्यस्य अभ्यर्थी अनन्तसिंहः गृहीतः।
अष्टात्रिंशद् अक्तुबरदिनाङ्के मोकामातारतरप्रदेशे द्वयोः पक्षयोः मध्ये संघर्षः अभवत्, ततः अनन्तरं दुलारचन्दयादवस्य मृतदेहं प्राप्तम्।उभयपक्षाभ्यां तस्मिन् विषये अभियोगः अपि निबद्धः आसीत्।
आरक्षकदलस्य प्रारम्भिक–अनुसन्धानं फलतः ज्ञातं यत् अनन्तसिंहः स्व–सहयोगिभिः सह तस्मिन् स्थले उपस्थितः आसीत्। शवपरीक्षणवृत्तान्ते तस्य शरीरस्य उपरि आघातचिह्नानि आसन्, तथा अस्त्र–अग्निपीडनलक्षणानि अपि दृश्यन्ते स्म।
अस्मिन् प्रकरणे अनन्तसिंहः मुख्य–अभियुक्तः निर्दिष्टः अस्ति।
पञ्चसप्ततिवर्षीयः दुलारचन्दयादवः मोकामातारतरग्रामस्य निवासी आसीत्।
मोकामाटालप्रदेशे तस्य महान् प्रभावः आसीत्, सः अपि अनेकवारं विधानसभानिर्वाचने प्रत्याशी भूत्वा स्पर्धितवान्।
सः राज्यस्य पूर्वमुख्यमन्त्रिणः लालूप्रसादयादवस्य सन्निकटः इति प्रसिद्धः आसीत्।
अस्मिन् विधानसभानिर्वाचनकाले दुलारचन्दयादवः जनसुराजपक्षस्य प्रत्याशिनः समर्थनार्थं प्रचारकार्यं कुर्वन् आसीत्। तस्मिन्नेव काले एषा दुःखदघटना अभवत्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता