Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 2 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वस्य छत्तीसगढ़प्रदेशयात्रायाःचित्राणि सामाजिकसञ्जालमञ्चे ‘एक्स्’ इत्यस्मिन् प्रकाशितानि। प्रधानमन्त्रिणा नूतने रायपुर अटलनगरस्थे मार्गप्रदर्शनसमये जनसमूहस्य उत्साहस्य स्नेहस्य च प्रति कृतज्ञता व्यक्ता। ते अवदन् यत् छत्तीसगढ़जनाः येन उत्साहेन पारम्परिकेन रूपेण च स्वागतं कृतवन्तः, तत् हृदयंगमं भावुकं चासीत्।
प्रधानमन्त्रिणा स्वस्य एक्स्-पोस्ट् मध्ये लिखितं यत् नवा रायपुरे नूतनं छत्तीसगढ़विधानसभाभवनं उद्घाटयितुं तस्मै अवसरः प्राप्तः। एतत् भवनं हरितनिर्माणकल्पनायाः आधारेण निर्मितं, यत् सौरऊर्जया सञ्चाल्यते, वर्षाजलसञ्चयनव्यवस्थां च धारयति। एतत् भवनं ‘विकसितछत्तीसगढ़स्य’ दिशायां महत्त्वपूर्णं चरणं भवति।
प्रधानमन्त्रिणा अत्रैव भारतरत्नपूर्वप्रधानमन्त्री अटलविहारीवाजपेयीमहाभागस्य प्रतिमायाः अनावरणं कृतम्। तेन उक्तं यत् एषा प्रतिमा आगामिनीः पीढीः प्रेरयिष्यति। अस्मिन् अवसरि तेन ‘एकः वृक्षः मातुः नाम्ना’ इत्यभियानस्य अन्तर्गते पौधारोपणं अपि कृतम्।
प्रधानमन्त्रिणा सत्यसाईसञ्जीवनीचिकित्सालये तैः बालकैः सह अपि साक्षात्कारः कृतः, ये जन्मजातहृदयरोगान् पराजित्य जीवनं नूतनं प्राप्तवन्तः। तेन उक्तं यत् तेषां बालानां हास्यं उत्साहश्च तं नवयौवनया ऊर्जया च पूरयामास।
मोदिना उक्तं यत् विधानसभाभवनस्य उद्घाटनसमारोहे विपुलजनसमूहस्य उपस्थितिः राज्यस्य पञ्चविंशतितमवर्षगाठोत्सवस्य शोभां विशेषतया वर्धयामास।
प्रधानमन्त्रिणा नवरायपुरे ब्रह्मकुमारिणां ध्यानकेन्द्रस्य ‘शान्तिशिखर’ नाम्नः अपि उद्घाटनं कृतम्। तेन उक्तं यत् एतत् केन्द्रं आधुनिकताया अध्यात्मनश्च संगमं दर्शयति, आगामिकाले च एतत् साधनाया विश्वशान्तेश्च प्रमुखं केन्द्रं भविष्यति।
---------------
हिन्दुस्थान समाचार