Enter your Email Address to subscribe to our newsletters

नवदेहली, 02 नवमबरमासः (हि.स.)। महिलाक्रिकेटविश्वकप इत्यस्य अन्तिमस्पर्धायां एतस्मिन् रविवासरे भारतस्य स्पर्धा दक्षिण–आफ्रिकया सह भविष्यति।
एषा स्पर्धा नवमुंबईनगरे स्थिते डी–वाय–पाटिल–क्रीडाङ्गणे अद्य अपराह्णे त्रिवादने आरभ्यते।
महिलाविश्वकप इत्यस्य इतिहासे एषः प्रथमः अवसरः अस्ति यत्र अन्तिमस्पर्धा तयोः दलयोः मध्ये संपद्यते यौ दलौ पूर्वं कदापि विजेता नाभवताम्।
एतदपि विशेषं यत्, महिला–एकदिवसीयविश्वकप इति एषः पञ्चमः अवसरः अस्ति, यदा आतिथेयदलम् उपाधिप्राप्त्यर्थं स्पर्धां करोति। उभे अपि दलौ स्वं प्रथमं विश्वकप–उपाधिं प्राप्तुम् इच्छतः।
भारतीयमहिलादल: अस्यां प्रतियोगितायां उपान्त्यचरणे ऑस्ट्रेलियादलं पञ्चविकेट्–अन्तरेण जित्वा अन्तिमस्पर्धां प्राप्तवान्। दक्षिण–आफ्रिकादल: अपि ऐङ्ग्लदेशदलं शतं–पञ्चविंशति रन–अन्तरेण पराजित्य अन्तिमचरणं प्राप्तवान्। यद्यपि दक्षिण–आफ्रिकादलस्य अपेक्षया भारतीयदलस्य स्थिति: बलवती अस्ति, यतः समूहचरणे भारतं दक्षिण–आफ्रिकां पराजयति।
एतेन सह उभयोः राष्ट्रयोः मध्ये चतुस्त्रिंशत् एकदिवसीयस्पर्धासु, विंशतिविजयानां लाभेन भारतम् दृढ–स्थितिम् उपनितवत्।
अन्तिमस्पर्धायां सम्भावितदलविन्यासः।
भारतदल: –
स्मृतिमन्धना, शेफालीवर्मा, जेमिमारोड्रिग्स, हरमनप्रीतकौर (नायिका), दीप्तिशर्मा, ऋचाघोष (विकेट्–रक्षकः), अमनजोतकौर, राधायादव / स्नेहराणा, क्रान्तिगौड:, श्री–चरणी, रेणुकासिंह:।
दक्षिण–आफ्रिकादल: –
लौरावोल्वार्डट (नायिका), तज्मिनब्रिटस, ऐनकेबॉश / मसाबाताक्लास्, सुनेलूस, मारिजनकप, सिनालोजाफ्ता (विकेट्–रक्षकः), एन्रिडर्क्सन्, क्लोट्रायन, नादिनडिक्लार्क, आयाबोंगाखाका, नोंकुलुलेकोम्लाबा।
---
हिन्दुस्थान समाचार / अंशु गुप्ता