Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 दिसंबरमासः (हि.स)।
इण्डिगो-विमानसेवायाः संकटनिमित्ते टाटासमूहस्य नेतृत्वे स्थितया एयरइण्डिया नामिकया विमाननकम्पन्या तस्या सहायकविमानसेवया एयरइण्डिया–एक्स्प्रेस् इत्यनेन सह अतिरिक्तरूपेण उडानां सञ्चलनं करिष्यते। इण्डिगो-विमानसेवा अद्य पञ्चशताधिकान् उडानान् निरस्तवती।
शनिवासरे विमानसेवया प्रकाशिते वक्तव्ये उक्तं यत् एयरइण्डियासमूहः प्रभावितयात्रिकाणां सहायार्थं स्वाधिक्यं क्षमता-वृद्धिं च विचारयति। समूहेनेदमपि उक्तं यत् इण्डिगो–उडानविघातेन देशव्यापिनः यात्रिकाः गतचतुर–पञ्चदिनेषु यां असुविधां अनुभवन्ति, तस्य समाधानार्थं उपायाः स्वीकृताः।
एयरइण्डिया एक्स–पोस्ट् मध्ये प्रकाशिते किराय–निर्देशे इति उक्तम्—“चतुर्थ–डिसेम्बर–तिथेः आरभ्य निरन्तरघरेलू–उडानासु इकॉनमी–वर्गस्य हवाई–किरायं पूर्वनियतसीमायां स्थाप्यते, येन सामान्य–आपूर्ति–मांग–नियमस्य प्रभावः न भवेत्।”
कम्पनीयाः प्रवक्त्रा उक्तं—एयरइण्डिया तथा एयरइण्डिया–एक्स्प्रेस् उभे अपि इकॉनमी–वर्गस्य किरायं सीमितम् अकुर्वन्।
एयरइण्डिया तथा एयरइण्डिया–एक्स्प्रेस् यात्रिकान् तेषां च सामानं शीघ्रतमेन गन्तव्यस्थाने प्रापयितुं क्षमता–वृद्धिं कर्तुं प्रयतन्ते। उल्लेखनीयम् यत् एयरइण्डिया–समूहस्य एतत् वक्तव्यं सरकारया इण्डिगो–उडानविघटनिमित्तं हवाई–किराय–नियन्त्रणस्य घोषणायाः कतिपयघण्टानन्तरं प्रकाशितम्।
एयरइण्डिया अवदत् यत् सर्वासु उडानेषु किराय–सीमांकनं तन्त्रतः न शक्यम्।
----------
हिन्दुस्थान समाचार