Enter your Email Address to subscribe to our newsletters

औरैया, 6 दिसंबरमासः (हि.स.)।
जिलाधिकारी डॉ इन्द्रमणि त्रिपाठी तथा पुलिसअधीक्षक अभिषेकभारती इत्येतौ एरवाकटरा विकासखण्डस्य उमरैन ग्रामपञ्चायत्याम् आयोजिते ग्रामचौपालस्य प्रसङ्गे ग्रामीणैः सह संवादं कृत्वा तेषां समस्याः ज्ञातवन्तौ। अधिकारी अवदत् यत् चौपाले प्राप्ताः सर्वे अभियोगाः शीघ्रं पारदर्शकरूपेण निवार्यन्ताम्, येन कश्चनापि ग्रामीणः तहसीलम् अथवा जिलामुख्यालयं प्रति अनावश्यकं भ्रमणं न कुर्यात्। तेनेदं अपि निर्दिष्टम् यत् ये कार्याणि अधूरे सन्ति तानि तत्क्षणमेव पूर्णीकृतानि स्युः।
जिलाधिकारिणा विधवा वृद्धा निराश्रिता दिव्याङ्गपेंशनादीनां विविधयोजनानां समीक्षा कृता, च अवोचित् यत् पात्रः कश्चन अपि जनः लाभात् वंचितः न भवेत्। पंचायतसहायकं तथा सम्बद्धधिकाऱिणः सर्वान् लम्बमानानां आवेदनानां केवाईसी प्रक्रिया शीघ्रं सम्पन्नां कर्तुं निर्देशाः दत्ताः।
तेने आवासयोजना टीकाकरणं पोषणकिट् वितरणं विद्युत्सम्बन्धिनां समस्याः पशूनां टीकाकरणम् प्रत्येकगृहं जलयोजना च—एतेषां सर्वेषां क्रियान्वयनस्य समीक्षा कृत्वा आवश्यकाः दिशानिर्देशाः प्रदत्ताः।
जिलाधिकारी लेखपालान् प्रति अपि अवोचत् यत् लम्बमानानि वरासत्प्रकरणानि शीघ्रं दर्जयन्ताम्। राशनकार्डसंशोधनस्य तथा वंचितलाभार्थिनां सूचिकरणस्य विवरणं जिला पूर्तिअधिकाऱिणे समर्पयितुं अपि निर्देशाः दीयमानाः।
चौपाले जिलाधिकारी तथा पुलिसअधीक्षकयोः हस्ताभ्यां गर्भवतीभ्यः पोषणकिटानां वितरणम् नवजातशिशूनां च अन्नप्राशनसंस्कारः अपि विधिपूर्वकं कृतः। कार्यक्रमे बहूनां विभागानां अधिकारीणः ग्रामप्रधानः ग्रामीणाश्च बहुसंख्येन उपस्थिताः।
---------------
हिन्दुस्थान समाचार