हुमायूं कबीरस्य बाबरीनाम्ना मस्जिदस्य आधारशीला द्वैषस्य अग्निज्वालिका आसीत् : सैयद हसनः
भागलपुरम्, 6 दिसंबरमासः (हि.स.)। खानकाह पीर दमाडियाशाहस्य सज्जादानशीन शाह फखरएआलम हसनेन बंगालप्रदेशे बाबरीनाम्ना मस्जिदस्य आधारशिलास्थापनस्य निन्दा कृता। तेन उक्तं यत् देशे धार्मिकउन्मादं प्रसारितुं यत् कृत्यं क्रियते तत् अत्यन्तं निन्दनीयम् अपरा
सैय्यद हसन


भागलपुरम्, 6 दिसंबरमासः (हि.स.)।

खानकाह पीर दमाडियाशाहस्य सज्जादानशीन शाह फखरएआलम हसनेन बंगालप्रदेशे बाबरीनाम्ना मस्जिदस्य आधारशिलास्थापनस्य निन्दा कृता। तेन उक्तं यत् देशे धार्मिकउन्मादं प्रसारितुं यत् कृत्यं क्रियते तत् अत्यन्तं निन्दनीयम् अपराधम्। यस्य कस्यापि धर्मस्य अनुयायी स्यात् यदि स धर्मनाम्ना आवृत्य द्वेषाग्निं प्रज्वालयति प्रसारयति च तर्हि तत् राष्ट्रद्रोहश्रेण्यां पतितं महापापम्।

एतेषु अति संवेदनशीलविषयेषु कस्मिंश्चिदपि मंचे प्रोत्साहनं न देयम्। अपि तु राष्ट्रहिताय द्वेषप्रसारकानां विरुद्धं पूर्णप्रतिबन्धः स्थापनीयः। सः कश्चन राजनेता किं वा अन्यः कोऽपि स्यात् इति न विवेचनीयम्। तेन उक्तं यत् राज्यं भारतसरकारं च अस्मिन् विषये दृढं विधानम् अवश्यं कर्तव्यम्।

अन्यथा यदि द्वेषराजनीतिकारिणां लोकानां च कर्मेषु एवमेव अवसरप्रदानं भवति तर्हि न दीर्घकालं यावत् यदा दुष्टशक्तीनां दूषिताः अभिलाषाः सिद्धाः भविष्यन्ति तथा देशस्य ऐक्यम् अखण्डता च विच्छिन्ना भविष्यति।

---------------

हिन्दुस्थान समाचार