Enter your Email Address to subscribe to our newsletters

नवदेहली, ६ दिसम्बरमासः (हि.स.)। तमिलनाडुप्रदेशस्य तिरुवल्लूरलोकसभाक्षेत्रस्य कांग्रेसदलस्य सांसदः शशिकान्तः सैंथिलः देशस्य प्रमुखविमानपरिवहन-कम्पनीइण्डिगो इत्यस्य उड्डयनसंकटं प्रति केन्द्रसर्वकारं मूकदर्शकरूपेण स्थातुम् आरोपितवान्। तेन उक्तम् जनाः स्वैः सामानैः सह विमानस्थानकेषु क्लेशं प्राप्नुवन्ति, किन्तु देशे कश्चन उत्तरदायी जनः चिन्तां न करोति। यात्रिकाणां सहायताकर्तुं कोऽपि सिद्धः नास्ति। सर्वकारं वक्तव्यम्—इण्डिगोकम्पनी कथं ६०-६५ प्रतिशतभागस्य आधारेण एकाधिकारिणी विमानसंस्था जाता?
सांसदसैंथिलेन अत्र कांग्रेसमुख्यालये शनिवासरे आयोजिते पत्रकारपरिषदि उक्तं जनाः होराभ्यः दीर्घतरं कालं विमानस्थानके अन्न-जलविहीनाः तिष्ठन्ति, वृद्धजनानां बालकानां च विशेषव्यवस्था नास्ति। अनेके यात्रिकाः परीक्षासु, आवश्यककार्यक्रमेषु, पारिवारिकापत्कालेषु च सम्मिलितुं न शेकुः। गतानि ४–५ दिनानि देशस्य विमानपर्यटन-इतिहासे अतिविग्राहितानि अभवन्। ह्यः सहस्रातिरिक्ता उड्डयानि निरस्तानि, अद्यापि ६०० अधिकानि निरस्तानि भवन्ति। लक्षान्तरयात्रिकाः बद्धा भवन्ति, उत्तरदायिनां कस्यापि चिन्ता न दृश्यते। तेन पृष्टं जनवरीमार्च २०२४ इत्यस्य कालाय परिवर्तिताः डीजीसीए-नियमाः पूर्वमेव किमर्थं न प्रवर्तिताः? सर्वकारः विमानीय-एकाधिकारस्य पोषणं करोति। इण्डिगो-संस्था: विपणि-भागः ६०–६५ प्रतिशतं कथं प्राप्तम्? सा कथं एकाधिकारिणी विमानपंगति अभवत्? सर्वकारः समाधानं ददातु।
अस्य विपरीतम्, नागरिक-उड्डयनमन्त्री के. राममोहन-नायडुः उक्तवान् नवीनाः उड्डयन-कर्तव्यकालसीमानियमाः १ नवम्बरमासात् प्रवृत्ताः, किन्तु अन्यस्य कस्यापि विमानसंस्थायाः कठिनता न जाता। अस्मात् स्फुटं यत् समस्या इण्डिगोसंस्थायाः एव। इण्डिगो-संस्थायाः अचेतनता निरीक्ष्यते, यथोचितं च कार्यं करिष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani