Enter your Email Address to subscribe to our newsletters


पंचकुला, 6 दिसंबरमासः (हि.स.)।
केंद्रीयविज्ञानप्रौद्योगिकीम पृथ्वीविज्ञानमन्त्रिणा (स्वतन्त्रप्रभाररूपेण) डॉ जितेन्द्रसिंहेन उक्तं यत् अद्य भारतस्य मानं विश्वस्य सर्वेषु क्षेत्रेषु वर्धते। अद्य विश्वं भारतस्य प्रति स्वदृष्टिकोणे उल्लेखनीयं परिवर्तनं पश्यति। अद्य भारतं स्टार्टअपक्षेत्रे विश्वे तृतीयस्थानम् अस्ति। अधुना 1.75 लक्षाणि स्टार्टअप्स सन्ति। अस्य सह पेटेन्ट्-निबन्धने 56 प्रतिशतं योगदानम् अस्ति। न केवलम्, प्रकाशनेऽपि वयं अगले द्वयोः वर्षयोः अमरीकां अतिक्रमिष्यामः इति। वर्तमानकाले 1.91 लक्षाणि प्रकाशनानि सन्ति। एतत् सर्वं सततप्रयत्नेभ्यः उन्मेषेभ्यश्च सम्भवितम्।
डॉ सिंह शनिवासरे पञ्चकूले आयोजितस्य इंडिया इंटरनेशनल् साइन्स् फेस्टिवल् (IISF) इत्यस्य एकादशसंस्करणस्य उद्घाटनसमारोहे सभां सम्बोधितवन्तः। ते अस्य महोत्सवस्य ‘3C’ इति परिभाषां दत्तवन्तः—अस्यार्थः उत्सव संचार करियर इति अद्भुतः संगमः। एतेन 3C-माध्यमेन विज्ञानं सरलरूपेण जनानां मध्ये प्रापयितुं शक्यते।
पृथ्वीविज्ञानमन्त्रालयस्य सचिवः डॉ एम रविचन्द्रन इदं विज्ञानमहोत्सवं भारतस्य वैज्ञानिकविकासस्य उत्प्रेरकरूपेण निर्दिष्टवन्तः। सर्वेषां प्रतिभागिनां प्रति आभारं व्यक्त्वा उक्तवन्तः यत् अयं महोत्सवः पुनः एकां गतिशीलां प्रदर्शनीम् आनयति या विकसितभारतानुकूलां नवचिंतनप्रेरणां ददाति। ते अवदन् यत् एतेषु चत्वारिषु दिनेṣu अस्मिन् विज्ञानमहोत्सवे सहभागीभिः इन्टरैक्टिव् कार्यशालाः, शोधाधारितप्रतियोगिताः, विशेषज्ञमार्गदर्शनेसत्राणि, समस्या-समाधानवादविवादाः, सहयोगपरियोजनाः, उपग्रहजीवलोकनम् इत्यादयः दर्श्यन्ते।
IISF इत्यस्य 11मः संस्करणः 6–9 दिसंबर पर्यन्तं पञ्चकूले आयोज्यते। अस्मिन् प्रमुखे आयोजनम् प्रदर्शनीव्यावसायिकबैठकाः प्रतियोगिताः सांस्कृतिककार्यक्रमाश्च भविष्यन्ति। अपि च IISF 2025 इत्यस्य पञ्च विषयेषु विशेषं ध्यानं भविष्यति यद् उत्तरपश्चिमभारत हिमालयक्षेत्रस्य विज्ञानप्रौद्योगिकी पारिस्थितिकी; समाजशिक्षणयोः कृते विज्ञानम्; विज्ञानप्रौद्योगिकीद्वारा आत्मनिर्भरभारतस्य संवर्धनम्; जैवप्रौद्योगिकी जैवअर्थव्यवस्था च; आधुनिकविज्ञानसह पारम्परिकज्ञानस्य एकीकरणम्।
विज्ञानक्षेत्रे कार्यरतानां महिलानां, विद्यालयीनां बालकानां, युवा उद्यमीनां, नवकरियरअनुसन्धानकर्तृणां च कृते विशेषसत्राणि अपि आयोज्यन्ते।
-------------
हिन्दुस्थान समाचार