Enter your Email Address to subscribe to our newsletters

नवदेहली, ६ दिसम्बरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना विद्यार्थिभिः, पालकैः, उपाध्यायैश्च सह संवादस्य प्रमुखः कार्यक्रमः ‘परीक्षा पे चर्चा’ (पीपीसी) इति, स्वस्य नवमं संस्करणम् इदानीं जनवरी २०२६ तमे मासे आयोजितुं निश्चयितम्। परीक्षासम्बद्धाः चिन्ताः, सकारात्मकतया सिद्धता, परीक्षायाः उत्सवरूपेण ग्रहणस्य भावना एतेषां विषयानां आधारेण अस्य अभिनवस्य कार्यक्रमस्य अन्ताराष्ट्रीयस्तरे प्रतिभागिनः प्रधानमन्त्रिणा सह संवादं कुर्वन्ति।
शिक्षा मंत्रालयेन शनिवासरे उक्तं यत् अस्य कार्यक्रमस्य प्रतिभागिनां चयनाय एकः अन्तर्जालप्रतियोगिता (एम.सी.क्यू. आधारितम्) माईगव्-प्रवेशद्वारे १ दिसम्बर २०२५ तः ११ जनवरी २०२६ पर्यन्तम् आयोजनां प्राप्नोति। कक्षा ६ तः १२ पर्यन्तस्य छात्राः, उपाध्यायाः, पालकाः च अस्मिन् स्पर्धायां भागं ग्रहीतुं शक्नुवन्ति। पञ्जीकरणं सम्पन्नं कुर्वतां सर्वेषां प्रतिभागिनां प्रति माईगव्-पक्षात् सहभागिताप्रमाणपत्रं दास्यते।
परीक्षा पे चर्चा-कार्यक्रमस्य अष्टमं संस्करणम् १० फरवरी २०२५ इति दिने नवदेहलीस्थे सुन्दरनर्सरी-उद्यानम् इत्यत्र नवोन्मेषपूर्णेन रूपेण आयोजितम् आसीत्। तस्मिन् सर्वेषां राज्येषु, केन्द्रशासितप्रदेशेषु च स्थिताः ३६ प्रतिनिधिविद्यार्थिनः सहभागी आसन्। सर्वकारीविद्यालयाः, केन्द्रीयविद्यालयाः, नवोदयविद्यालयाः, सैनिकविद्यालयाः, एकलव्य-मोडेल्-आवासीय-विद्यालयाः, सीबीएसई-विद्यालयाः च अस्य भागिनः अभवन्। प्रेरणा-एलुमनाइ, कला-उत्सव, वीरगाथापुरस्कारविजेतारः च कार्यक्रमस्य अङ्गं बभूवुः। मानसिकस्वास्थ्य, क्रीड़ानुशासनम्, पोषणम्, तन्त्रज्ञानम्, वित्तशिक्षा, रचनात्मकता, सकारात्मकता एतेषु विषयेषु सप्त विशेष-अङ्काः अपि प्रदर्शिताः।
वर्षे २०२५ ‘परीक्षा पे चर्चा’ कार्यक्रमेण अभूतपूर्वं सफलतां प्राप्त्वा गिनीज्-वर्ल्ड्-रेकॉर्ड् अपि स्थापितः। २४५ अधिकेषु देशेषु स्थिताः विद्यार्थी, १५३ देशेषु उपाध्यायाः, १४९ देशेषु पालकाः च अस्य भागिनः आसन्। कार्यक्रमस्य विस्तारः निरन्तरं वर्धते—२०१८ तमस्य प्रथमसंस्करणस्य २२ सहस्र-प्रतिभागिभ्यः आरभ्य २०२५ तमस्य अष्टमसंस्करणस्य ३.५६ कोटिपञ्जीकरणानि प्राप्तानि। तथा पीपीसी २०२५-सम्बद्धे जनान्दोलनस्य १.५५ कोटिजनभागीदारी आसीत्। एवं सर्वसाहभागिताया: संख्या प्रायः ५ कोटि पर्यन्तं प्राप्ता।
हिन्दुस्थान समाचार / Dheeraj Maithani