Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 दिसंबरमासः (हि.स)। भारतस्य योगगुरुः स्वामी रामदेवस्य नेतृत्वे पतञ्जलियोगपीठेन तथा रूससरकारेण कल्याणम्, योगः, आयुर्वेद, आध्यात्मिक आदान-प्रदानं च वृद्धये एकः सन्धिज्ञापनः (एमओयू) सम्पन्नः।
रूसस्य राष्ट्रपतिः व्लादिमिर् पुतिनस्य भारत-यात्रायाः समये एषः ऐतिहासिकः सन्धिः पतञ्जलि समूहस्य संरक्षकयोगगुरुः स्वामी रामदेवेन तथा भारत–रूस व्यापारपरिषदस्य अध्यक्षेन एवं रूसस्य वाणिज्यमन्त्रिणा सर्गेई चेरेमिनेन सह हस्ताक्षरितः।
पतञ्जलि योगपीठस्य संस्थापकः स्वामी रामदेव मीडिया-संवादे उक्तवान् यत् अस्य समझौता ज्ञापनस्य मुख्य उद्देश्यः भारत–रूसयोः मध्ये कल्याण, योग, आयुर्वेद, आध्यात्मिक आदान-प्रदानं, तथा कुशल श्रमगतिशीलतायाः सहयोगं संवर्धयितुम् अस्ति। ते कथयन्ति—“स्वास्थ्यं सर्वेषां जनानां आवश्यकताः। वयम् रूसदेशेवासिनां कृते भारतीययोगं, आयुर्वेदं, प्राकृतिकचिकित्सां च प्रदानं करिष्यामः। एषः मानवतायै महत्त्वपूर्णः आह्वानः। वयम् कल्याणाय सहकार्यं करिष्यामः। मास्को तथा सम्पूर्ण रूसदेशे कल्याणकेंद्राणि स्थापयिष्यामः।” रूसस्य वाणिज्यमन्त्रिणः सर्गेई चेरेमिन अपि उक्तवन्तः यत्, “वयम् जीवनस्य स्वस्थशैलीं प्रोत्सहामः। खेलक्रीडायाः प्रचारं कुर्मः। सामान्यजीवनमूल्यानां संवर्धनं कुर्मः। वयं सांस्कृतिक, मानवीय, आध्यात्मिक च सहयोगं गभीरतरं कर्तुं इच्छामः। अतः अस्माभिः एषः सन्धिज्ञापनः हस्ताक्षरितः।” ते अपि आवेदितवन्तः यत् रूसदेशे योगः मास्कोमध्ये लोकप्रियः अस्ति, किन्तु सम्पूर्ण रूसे न। एतस्मात् पतञ्जलि समूहः रूसदेशे योगस्य प्रवर्तकः इव कार्यं करिष्यति।
उल्लेखनीयम् यत् प्रधानमंत्री कौशलविकासयोजनायाः अन्तर्गत पतञ्जलि योगपीठेन द्विलक्षाधिकान् व्यक्तीन् सफलतया प्रशिक्षितानि। एषः एमओयू रूसदेशे कुशलयोगिनां प्रशिक्षितश्रमिकानां च आपूर्तिमत कर्तुं अवसरं दत्तवान्। एमओयू अन्तर्गत रूसदेशे अग्रगण्यभारतीयब्राण्डानां संवर्धनं, तथा रूसीब्राण्डानां भारतदेशे प्रवेशः अपि लक्षितः। पतञ्जलि रूसी उपभोक्तृभ्यः स्वस्य विश्वस्तरीय उत्पादनानि प्रदर्शयितुम् सज्जम् अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता