Enter your Email Address to subscribe to our newsletters

पंचकुला , 6 दिसंबरमासः (हि.स.)।
भारत्याः अन्ताराष्ट्रियविज्ञानमहोत्सवस्य २०२५ तमे वर्षे आद्यदिने शनिवासरे भारतीयोऽन्तरिक्षयात्री शुभांशुशुक्लः स्वान्तरिक्षानुभवान् साझीकृतवान्। पञ्चकुलायां प्रवर्तमानस्य महोत्सवस्य प्रथमसत्रे शुक्लेन छात्रैः युववैज्ञानिकैश्च सह संवादः कृतः, स च स्वानुभवान् अत्यन्तं सरलरमणीयरूपेण अभिभाषितवान्।
अन्ताराष्ट्रियान्तरिक्षस्थानके स्वकं कार्यं सम्पन्नं कृत्वा शुभांशुः अवोचत यत् अन्तरिक्षे जीवनं कथं भवति। तत्र गुरुत्वहीनतायां तस्य चलनं भोजनम् पीवनं निद्रा च नित्यकर्मसु क्रियासिद्धिश्च कथं भवति इति। स उक्तवान् यत् अन्तरिक्षे सर्वं तिष्ठति एव—जलस्य लघु बुन्दिकाः भोजनपुटकानि तस्य शरीरेण सहितानि अपि।
बालकेभ्यः स अवोचत यत् तत्र निद्रार्थं विशेषाणि शयनकक्षाणि प्रयुज्यन्ते, वैज्ञानिकप्रयोगाश्च अत्यन्तम् अनुशासनेन नियतसमये च क्रियन्ते।
सत्रे बालकाः तं नानाप्रश्नान् पृष्टवन्तः—यथा अन्तरिक्षे भोजनं कियत् भवति, दिननिशोरनुभवः कथं दृश्यते, गुरुत्वहीनतायां शरीरस्य प्रतिक्रिया कथं भवति इति। शुभांशुः सर्वान् उत्तरान् प्रेरणादायकरूपेण दत्तवान्।
आईआईएसएफ इति महोत्सवे विद्यार्थिनः शोधकाः च बहुसंख्यया आगताः। महोत्सवः आगामिदिनेषु अनेकेषां वैज्ञानिकप्रदर्शनेषु कार्यशालासु युवा संवादसत्रेषु नवोन्मेषप्रदर्शनेषु च मंचत्वं प्राप्स्यति। पञ्चकुलायां आयोजितस्य अस्य विज्ञानमहोत्सवस्य मुख्यं उद्देश्यम् अस्ति विज्ञानस्य प्रसारणम् सर्वेषां जनानां प्रति, युवानां मध्ये वैज्ञानिकदृष्टेः विकासः, भारतस्य वैज्ञानिकसिद्धीनां व्यापकप्रदर्शनञ्च।
------------
हिन्दुस्थान समाचार