Enter your Email Address to subscribe to our newsletters

सूरत बैराज परियोजनायाः शुभारंभः : 25 ग्रामेभ्यः सिंचनं, नगरं 2050तमं वर्षं यावत् जलस्य बंधकम्सूरतम्, 06 दिसंबरमासः (हि.स.)।
सुरतनगरे देशस्य सर्वाति बृहत् नगरस्तरीय भूगर्भजल बैराज परियोजना निर्मीयते। सुरतमहानगरपालिकायाः स्थायीसमित्या ताप्तीनद्यां निर्माणीयस्य बैराजस्य प्रथमचरणार्थं कोफरड्यामनिर्माणाय अनुमतिः दत्ता। सीडब्ल्यूसी इत्यस्य नूतनरचनानुसारं मृत्तिकापालस्य स्थाने अद्य डबलवॉलशीटपाइल कोफरड्यामनिर्माणं भविष्यति, यस्य कृते प्रायेण एकशतमशीतिकोटिरूप्यकाणामधिकव्ययः अनुमोदितः अस्ति।
एषा बैराजपरियोजना पूर्वं केवलं सुरतनगरस्य पेयानिर्वाहाय एव आसीत्, किन्तु अधुना अस्याः परिधौ ओलपाड चोरयाशी इति प्रदेशयोः पञ्चविंशतिः ग्रामाणां 2365 हेक्टरविस्तीर्णभूम्याः सिंचनयोजना अपि संमिलिता अस्ति। अनेन परियोजनायाः महत्त्वं व्ययः च उभयं वर्धितम्। रुढभाठा इति क्षेत्रयोः संयोगं कुर्वन् अयं बैराजः ताप्तीनद्यां दशकिलोमीटरदीर्घं मधुरजलस्य विशालं सरोवरं करिष्यति। अस्मिन् 18.73 मिलियनक्यूबिकमीटरमितं जलभरणं भविष्यति, येन सुरतनगरस्य पानस्य आवश्यकताः 2050 ताम् अवधिं यावत् पूरयितुं शक्यन्ते तथा च समग्रे प्रदेशे भूगर्भजलस्तरः अपि वर्धिष्यते।
बैराजस्य प्रमुखविशेषताः—
अनुमानितव्ययः 974 कोटिरूप्यकाणि
बैराजस्य दीर्घता 1020 मीट्रः
विस्तारः 33 मीट्रः
सेतुमार्गः 3.6 किलोमीटरमितः
जलाशयस्य दीर्घता 10 किलोमीटरमिता
ताप्तीबैराजआधारितलिफ्टसिंचनपरियोजनान्तर्गतं दामका वांसवा लवाछा आडमोर भाडुत सुआली मोरा इत्येते सहिताः पञ्चविंशतिः ग्रामाः सिंचनलाभं प्राप्स्यन्ति। राज्यशासनम् अस्मिन् परियोजनायां सिंचनस्य समावेशे 25 प्रतिशतग्रांटनिर्दाने अनुमतिं दत्तवान् अस्ति।
---------------
हिन्दुस्थान समाचार