Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 दिसंबरमासः (हि.स.)। केंद्रीय-संस्कृति तथा पर्यटन-मन्त्री गजेन्द्रसिंहः शेखावत् तथा केंद्रीयवस्त्रमन्त्री गिरिराजसिंहः संविधान-निर्माता डॉ. भीमराव-आंबेडकरस्य पुण्यतिथौ शनिवासरे श्रद्धांजलिं अर्पितवन्तः। शेखावतः एक्स्-पटले लिखितवान् यत् “संविधानस्य रचनाकारः डॉ. भीमराव् आंबेडकरः तेषां महापरिनिर्वाणे शतशतं नमन!”
गिरिराजसिंहः एक्स् मध्ये लिखितवान् – “संविधान-शिल्पी डॉ. आंबेडकरस्य महापरिनिर्वाण-दिनम् अधिष्ठाय विनम्र-श्रद्धांजलिः। तेषां सम्पूर्ण जीवनम् राष्ट्र-निर्माणाय, समानतायै च सामाजिक-न्यायाय च समर्पितम् आसीत्।”
------------
हिन्दुस्थान समाचार / Dheeraj Maithani