Enter your Email Address to subscribe to our newsletters






अमेठी, 6 दिसंबरमासः (हि.स.)।
अमेठीनगरस्य ककवारोडस्थित देवमैरिजलॉनमध्ये मदनफाउण्डेशनेन संस्कृतिमन्त्रालयस्य सहयोगेन आयोजितः द्विदिवसीयः अटलजन्मशताब्दीसमारोहः शनिवासरे हर्षोल्लासपूर्वकं सम्पन्नः। समारोहस्य प्रथमदिने पञ्चदिसम्बरस्य विराटकविसम्मेलनम् आयोजितम्। अस्मिन् मुख्यातिथिः जगदम्बाप्रसादमनीषी इत्यनेन कविभ्यः सम्मानचिह्नम् अंगवस्त्रम् पुष्पमालां च दत्वा सम्माननं कृतम्। स अवदत् यत् “कवयः देवतुल्याः भवन्ति, कवीनां सम्माननं पूजनवत् भवति। अटलजी अपि महान् कविः आसीत्।”
कार्यक्रमस्य शुभारम्भः मातुः सरस्वत्याः पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयिनः च चित्रयोः पुष्पार्पणेन दीपप्रज्वलनेन च अभवत्। सुरेशशुक्लेन नवीननाम्ना सरस्वतीवन्दना प्रस्तूता। समीरमिश्रस्य कुशलसञ्चालने कविभिः काव्यपाठेन वातावरणम् अत्यन्तं रमणीयं कृतम्। अस्मिन्नवसरे डॉ फूलकली पूनम चन्द्रप्रकाशपाण्डेय मंजुल निर्झरप्रतापगढी रविन्द्ररंजनशिकोहाबादी मकसूदजाफरी डॉ अर्चना ओजस्वी परवानाप्रतापगढी दीनप्रतापगढी किशोरसिंह किशोर इत्येतैः प्रभावी काव्यपाठः कृतः। कविसम्मेलनस्य अध्यक्षता जौनपुरस्य वरिष्ठकविना अशोकपाण्डेय अशोक इत्यनेन कृतम्।
द्वितीये दिने षड्दिसम्बरशनिवासरे मुख्यातिथिः अमरेन्द्रसिंहपिण्टू विशिष्टातिथयः सुधांशुशुक्ल काशीतिवारी कैप्टन पी एन मिश्र बिन्देश्वरीप्रसाददुबे जलबिरादरीअध्यक्षः डॉ अर्जुनप्रसाद ब्राह्मणस्वाभिमानएकतामञ्चस्य राष्ट्रीयाध्यक्षः दिनेशतिवारी इत्येते अटलजिनः चित्रे पुष्पार्पणं कृत्वा कार्यक्रमस्य आरम्भम् अकुर्वन्। ततः अनन्तरं विभिन्नविद्यालयेभ्यः आगताः प्रतिभागिनः प्रथमद्वितीयतृतीयसांत्वनपुरस्कारान् भारतीयपत्रकारसंघस्य जिलाध्यक्षेन लोकेशकुमारत्रिपाठी समाजसेविना बिन्देश्वरीप्रसाददुबे च प्रदत्ताः।
शिक्षाक्षेत्रे विशेषयोगदानार्थं प्रोफेसरअंगदसिंहसहित एकादश शिक्षका सम्मानिताः। जिलस्य भारतीयपत्रकारसंघस्य जिलाध्यक्षः लोकेशकुमारत्रिपाठी दिलीपयादव संतोषश्रीवास्तव धवनमिश्र अखिलेशनारायणमिश्र जितेन्द्रशर्मा इत्यादयः अनेकाः पत्रकाराः अधिवक्तारश्च अंगवस्त्रेण सम्मानपत्रेण स्मृतिचिह्नेनेति सम्मानिताः। उभयदिने उत्कृष्टं जलपानभोजनव्यवस्थापनं कृतम्। कार्यक्रमस्य अन्ते फाउण्डेशनाध्यक्षः धीरेंद्रतिवारी सर्वेषां अतिथीनां श्रोतॄणां प्रतिभागिविद्यालयानां च प्रति आभारं प्रकटितवान्।
---------------
हिन्दुस्थान समाचार