मध्य प्रदेशस्य राजभवनस्य नाम परिवर्तितं, अधुना जातं लोक भवनम्
भोपालम्, 06 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरस्थं राजभवनं नूतननाम्ना परिवर्तितम्। अधुना तत् लोकभवनम् इति अभिधीयते। वस्तुतः शनिवासरे मध्यान्हसमये मुख्यमन्त्री डॉ मोहनयादवः राज्यपालं मंगुभाइपटेलं सन्दर्श्य तस्य अनन्तरं राजभवनस्य मुख्
पुरानी पट्टिका हटाकर ‘लोक भवन’ की नई पट्टिका लगाते हुए


राज्यपाल से मिले मुख्यमंत्री


भोपालम्, 06 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरस्थं राजभवनं नूतननाम्ना परिवर्तितम्। अधुना तत् लोकभवनम् इति अभिधीयते। वस्तुतः शनिवासरे मध्यान्हसमये मुख्यमन्त्री डॉ मोहनयादवः राज्यपालं मंगुभाइपटेलं सन्दर्श्य तस्य अनन्तरं राजभवनस्य मुख्यद्वारे स्थापितां प्राचीं पट्टिकां अपास्य नूतना ‘लोकभवन’ इति पट्टिका प्रतिष्ठापिता।

यतस्तु केन्द्रसरकारया द्विदिने पूर्वं देशव्यापिनां सर्वेषां राजभवनानां नाम ‘लोकभवन’ इति करणीयम् इति निश्चयः कृतः आसीत्। अतः सर्वे मन्यन्ते स्म यत् मध्यप्रदेशेऽपि शीघ्रमेव राजभवनस्य नाम परिवर्तनं भविष्यति। शनिवासरे मुख्यमन्त्री डॉ यादवः लोकभवनम् आगत्य राज्यपालं पटेलं सन्दर्शितवान्। मुख्यमन्त्रिणा राज्यपालाय पुष्पगुच्छः समर्पितः। राज्यपालेन अपि राज्यस्य विकाससम्बद्धान् जनकल्याणविषयकान् च नानाविषयान् प्रति मुख्यमन्त्रिणा सह चर्चा कृताऽभूत्।

मुख्यमन्त्रिसन्दर्शनानन्तरं राज्यपालस्य मंगुभाइपटेलस्य सन्निधौ ‘राज’ इत्यस्य स्थाने ‘लोक’ इति लिखनप्रक्रिया सम्पन्ना। एवं च मध्यप्रदेशे राजभवनं अधिकृतरूपेण ‘लोकभवनम्’ इति नाम्ना पंजीकृतम्। अस्य नामान्तरस्य प्रवृत्तेः अनन्तरं अधुना राज्यपालनिवासः ‘लोकभवनम्’ इति एव प्रसिद्धः भविष्यति।

अष्टौ राज्यानि एकं च केन्द्रशासितप्रदेशं नामपरिवर्तनं कृतवन्तः

गौरव्यार्थं वदितव्यं यत् गतवर्षे राज्यपालानां सम्मेलनमध्ये एतत् सुझावः दत्तः आसीत्—यत् ‘राजभवन’ इति नाम औपनिवेशिकमानसिकतां सूचयति। अतः तस्य स्थाने लोकतान्त्रिकमूल्यैः अनुरूपं ‘लोकभवन’ इति नाम भविष्यति इति। केन्द्रसरकारनिर्देशेन पश्चिमबंगालम्, तमिळनाडु, केरलम्, असम्, उत्तराखण्डः, ओडिशा, गुजरातम्, त्रिपुरराज्यम्—एते सर्वे पूर्वमेव स्वस्वराजभवनानां नामानि ‘लोकभवन’ इति कृतवन्तः। लद्दाखप्रदेशे तु ‘उपराज्यपालनिवासः’ ‘लोकनिवास’ इति नाम्ना परिवर्तितः। एषः समग्रः प्रयासः देशं औपनिवेशिकचिह्नैः नामभिः च मुक्तं कर्तुं प्रवृत्तस्य व्यापकस्य अभियानस्य अंशः मन्यते।

___________

हिन्दुस्थान समाचार