Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 07 दिसम्बरमासः (हि.स.)। असमस्य मुख्यमंत्री डॉ. हिमंत बिस्व सरमा
सशस्त्रसेनाझण्डादिवसस्य अवसरे देशस्य वीरसैनिकाः साहसं समर्पणं बलिदानं च नमस्कृतवन्तः।
मुख्यमन्त्रिणा उक्तं यत् भारतीयसेनायाः जवानाः मातृभूमेः रक्षणार्थं स्वसर्वस्वम् अपि समर्पयन्ति। राष्ट्रं तेषां अमूल्ययोगदानस्य कृते सदैव ऋणी भविष्यति।
ते अवदन् यत् सैनिकानां अदम्यसाहसस्य कर्तव्यनिष्ठायाश्च प्रभावेन एव देशस्य सीमाः सुरक्षिताः सन्ति प्रत्येकनागरिकश्च शान्त्या जीवनं निर्वहति।
अस्मिन् अवसरे सरमामहाशयः सर्वान् नागरिकान् प्रति अपीलम् अकरोत् यत् ते सशस्त्रसेनाझण्डादिवसे देशस्य वीरान् प्रति कृतज्ञतां प्रकटयन्तु तेषां साहाय्यकरणे च अग्रे आगच्छेयुः।
हिन्दुस्थान समाचार