बिहार स्टेट एक्स सर्विसमैन बेनेवोलेंट-राशौ करणीयम्अंशदानम् : नीतीश कुमारः
-मुख्यमंत्री नीतीश कुमारः आरोपितवान् सशस्त्र सेना झंडा, सैनिक कल्याण कोषे अकरोद्अंशदानम् पटना, 07 दिसंबरमासः (हि.स.)। सशस्त्रसेनाझण्डादिवसस्य अवसरे सैनिककल्याणनिदेशालयस्य निदेशकः ब्रिगेडियर मृगेन्द्रकुमारः रविवासरे मुख्यमन्त्री नीतिशकुमारं 1 अ
बिहार स्टेट एक्स सर्विसमैन बेनेवोलेंट फंड में अंशदान करते नीतीश कुमार


-मुख्यमंत्री नीतीश कुमारः आरोपितवान् सशस्त्र सेना झंडा, सैनिक कल्याण कोषे अकरोद्अंशदानम्

पटना, 07 दिसंबरमासः (हि.स.)।

सशस्त्रसेनाझण्डादिवसस्य अवसरे सैनिककल्याणनिदेशालयस्य निदेशकः ब्रिगेडियर मृगेन्द्रकुमारः रविवासरे मुख्यमन्त्री नीतिशकुमारं 1 अणे मार्गे स्थिते तस्य निवासे समुपेत्य मिलितवान् तथा च तस्मै सशस्त्रसेनाझण्डादिवसस्य ध्वजं समर्पितवान्।

अस्मिन् सन्दर्भे मुख्यमन्त्रिणा बिहारस्टेटएक्ससर्विसमैनबेनेवोलेंटफण्डे अंशदानं कृत्वा देशस्य जवानानां प्रति सम्मानः समर्थनं च व्यक्तम्। ते अवदन् यत् राष्ट्रस्य सुरक्षायां सैनिकानां योगदानम् अविस्मरणीयम् अस्ति, तेषां वीरता बलिदानं च सर्वदा स्मरणीयम्।

मुख्यमन्त्री नीतिशकुमारोऽपि उक्तवान् यद्“अस्माकं सैनिकाः राष्ट्ररक्षणार्थम् आत्मानमपि न्योच्छावरयन्ति। बाह्यआन्तरिकयोः उभयोरपि प्रकारयोः संकटेषु ते साहसं निष्ठां च दर्शयन्तः सम्यक् प्रतियुध्यन्ते। तेषां कुर्बान्यः अमराः।”

मुख्यमन्त्रिणा राज्यवासिभ्यः अपि आवेदनं कृतम्—ते सैनिककल्याणाय पुनर्वासाय च बेनेवोलेंटफण्डे सहयोगं कुर्वन्तु, येन पूर्वसैनिकानां वीरशहीदानां परिवाराणां च सहाय्यं सम्पद्येत।

अस्मिन्नवसरे राज्यजलसंसाधनसहसंसदीयकार्यमन्त्री विजयकुमारचौधरी, गृहविभागस्य अपरमुख्यसचिवः अरविन्दकुमारचौधरी, गृहविभागसचिवः प्रणवकुमारः, मुख्यमन्त्रिणः सचिवः डाक्टर चन्द्रशेखरसिंह, निदेशकः ब्रिगेडियर मृगेन्द्रकुमारः, कर्नेल् सन्तोषकुमारत्रिपाठी, कर्नेल् मनोजकुमारः इत्यादयः अनेके अधिकारिणः उपस्थिताः।--------------

हिन्दुस्थान समाचार