Enter your Email Address to subscribe to our newsletters

कोलकाता, 07 दिसम्बरमासः (हि.स.)।कोलकातायाः ऐतिहासिके ब्रिगेड् परेडक्रीडांगणस्य परिसरः रविवासरे लक्षसंख्याकजनसमूहेन पूरितः, ये सर्वे मिलित्वा गीता–पाठम् अकुर्वन्, येन नवीनः इतिहासः निर्मितः। अस्मिन् विशालकार्यक्रमे कथावाचकः धीरेंद्रकृष्णशास्त्री (बागेश्वरबाबा), साध्वी ऋतंभरा, स्वामीज्ञानानन्दश्च उपस्थिताः आसन्। अस्य आयोजनस्य दायित्वं सनातनसंस्कृतिसंसदः एव बभूव, यस्य अध्यक्षः कार्तिकमहाराजः, स्वामीनिर्गुणानन्दः, अन्ये च साधुसन्तः मुख्यभूमिकां निर्वहन्तः आसन्।
एतस्मिन्नवसरे पश्चिमबङ्गस्य राज्यपालः डॉ सी वी आनन्दः बोसः अपि सान्निध्यं दत्तवान्। राज्यपालेन भाषणसमये उक्तं यत् राज्यं धार्मिकअहंकारस्य परित्यागाय सज्जम् अस्ति। ब्रिगेड् परेड् मैदानस्य गीता–पाठ–मञ्चात् भाषमाणः सः शनिवारे मुर्शिदाबाद्–प्रदेशे जातां काञ्चन घटनां सूचयित्वा, परन्तु तस्यां स्पष्टं न निवेद्य, केवलं अवदत्— “मुर्शिदाबादे किञ्चित् जातं मया दृष्टम्।”
शनिवासरे निलम्बित–तृणमूल–कांग्रेस–विधायकः हुमायूं कबीरः मुर्शिदाबादस्य रेजीनगर–प्रदेशे अयोध्यायाः बाबरी–मस्जिद्–रूपेण निर्मीयमाणायाः मस्जिदः आधारशिलां स्थापयामास। अस्मिन् क्रमे राज्ये राजनीतिकहलचलः वर्धितः, विशेषतः यदा आगामिवर्षे विधानसभा–निर्वाचनम् आगच्छति। राजनीति–विश्लेषकाः वदन्ति यत्, एषः कार्यक्रमः जानिबूझकर ०६ दिसम्बर् इति दिने एव कृतः— यस्मिन् दिने १९९२ तमे वर्षे बाबरी–ढाँचस्य विध्वंस–स्मृतिदिनं भवति।
गीता–पाठ–मञ्चात् राज्यपालः बोसः भ्रष्टाचार–उन्मूलनस्य विषयमपि उद्बोधितवान्। तेन भगवद्गीतायाः श्लोकः यत्“परित्राणाय साधूनां विनाशाय च दुष्कृताम्।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥”
इति उद्धृत्य अवोचत् यत् धर्मस्य स्थापना, अधर्मस्य च नाशः, नित्यं दृढसंकल्परूपेण संस्थितः एव।
ब्रिगेड् परेड् ग्राउण्ड्–प्रदेशे ‘पञ्चलक्षकण्ठैः गीता–पाठः’ इति महाकायकार्यक्रमः सनातनसंस्कृतिसंसदा आयोजितः, यस्मिन् विविधानां मठानां धार्मिकसंस्थापनानां च साधुसन्ताः भागं स्वीकृतवन्तः। एतत् एव राज्ये यावत् सर्वाति–विस्तीर्णः सामूहिक–गीता–पाठः इति प्रतिपाद्यते। आयोजकाः वदन्ति यत् अस्य कार्यक्रमस्य उद्देश्यः बङ्गालस्य आध्यात्मिकपरम्परायाः प्रकाशनम्, सामाजिक–सौहार्दस्य च प्रसारणम्।
स्वामी प्रदीप्तानन्द–महाराजः, यः कार्तिक–महाराज–नाम्ना अपि विख्यातः, अवदत्— “विभाजन–परिस्थितौ आध्यात्मिकाभ्यासः समाजाय शान्तिं दिशां च दातुं शक्तः।” तेनोक्तं यत् राज्यभरतः विशालसंख्यायाः भक्ताः पूर्वमेव स्वीयां उपस्थितिां सुनिश्चितवन्तः।
अस्य महान् कार्यक्रमस्य निमित्तं सुरक्षा–व्यवस्था, संमर्द–नियन्त्रणम्, चिकित्सासुविधाः च विस्तृतरूपेण विन्यस्ताः। महद्भूतः मैदानः त्रिभिः विशालैः मञ्चैः सज्जीकृतः, तथा केन्द्र–कोलकातातरङ्गे सुरक्षा–व्यवस्था अधिकं कठोरा कृता।
-----------------
हिन्दुस्थान समाचार