Enter your Email Address to subscribe to our newsletters


संभलम्, 7 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य भगजनतादलस्य पूर्वसांसदः बृजभूषणशरणसिंहः अद्य सम्भलजिलायाः ऐंचौडकम्बोह ग्रामे स्थितं श्रीकल्किधामम् अगच्छत्। तत्र महायज्ञे समर्प्यमाणायां आहुतौ स्वयम् आहुतिं दत्तवान्। श्रीकल्किधामसम्बद्धप्रश्ने सः अवदत् यथा श्रीराममन्दिरं निर्मितम् एवं श्रीकल्किधामपि निश्चयेन निर्मीयते इति।
भजपानायकः हेलिकॉप्टरेण कल्किधामम् आगतः। अस्मिन् अवसरि श्रीकल्किपीठाधीश्वरः आचार्यप्रमोदकृष्णम् तं पूर्वसांसदं ससन्मानं सत्कारं च कृतवान्। तेन प्रधानमन्त्रिणा नरेन्द्रमोदिना संस्थापिताया आधारशिलाया दर्शनमपि कृतम्।
कल्किधामनिर्माणविषये बृजभूषणसिंहः अवदत् यत् एषा घटना सहस्रवर्षपर्यन्तं वर्णिता आस्ति। सः उवाच यत् अहं श्रद्धामेव मानयामि, तस्याः श्रद्धायाः आधारेण एव प्रधानमन्त्रिणा आधारशिला स्थापिता। तस्य मतम् यत् एतद् यथेष्टं प्रमाणं भवति यत् कल्किभगवतः अवतारः अस्यां भूमौ भविष्यति।
अष्टादशवर्षपर्यन्तं दीर्घसंघर्षानन्तरं आरब्धस्य कल्किधामनिर्माणस्य प्रसङ्गे पूर्वसांसदः अवदत् यत् संघर्षविनाऽकस्मात् कस्यापि कार्यस्य सिद्धिः न लभ्यते। राममन्दिरस्य उदाहरणं दत्वा सः अवदत् यत् तस्यापि विरोधः जातः आसीत् किन्तु तत् मन्दिरम् अपि निर्मितम्। एवं कल्किधामस्यापि निर्माणं प्रवर्तते।
पश्चिमबंगस्य मुर्शिदाबादप्रदेशे टियम्सी दलात् निष्कासितेन विधायकहुमायूँकबीरनाम्ना यत् बाबरीमस्जिद्निर्माणसम्बद्धं वक्तव्यं कृतम् तस्मिन् विषये बृजभूषणसिंहः अवदत् यत् नूतना परम्परा प्रवृत्ता यत्र केचन व्यक्तयः विवादं उत्पाद्य नाम यशः च सुरक्षा च लब्धुं प्रयतन्ते।
हिन्दुस्थान समाचार