Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 7 दिसंबरमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन सशस्त्रसेनाझण्डादिवसस्य अवसर पर देशस्य वीरसैनिकानां तेषां परिवारजनानां च प्रति शुभकामनाः दत्ताः।
सः स्वसामाजिकसञ्चारमाध्यमे लिखितवान् यत्
“सशस्त्रसेनाझण्डादिवसे भारतमातुः रक्षणे नित्यं समर्पिताः अस्माकं वीराः सुरक्षा बलाः पूर्वसैन्यकर्मिणः तेषां परिवारजनाश्च हार्दिकशुभकामनाभिः सम्मान्यन्ताम्।
एषः दिवसः तान् सैन्यकर्मिणः स्मारयति ये अतुलनीयसाहसेन त्यागेन राष्ट्रनिष्ठया च सीमासु सर्वाः परिस्थितीःस्वीकृत्य देशस्य सुरक्षा सर्वोपरि स्थापितवन्तः।
अस्माकं रणबाङ्कुरूणां वीरता प्रत्येकभारतीयस्य हृदये राष्ट्रप्रेम कर्तव्यभावम् अखंडम्आत्मविश्वासं च संचारयति। भारतदेशः तेषां अद्वितीयबलिदानस्य कृते सदैव ऋणी भविष्यति।”
--------------
हिन्दुस्थान समाचार