Enter your Email Address to subscribe to our newsletters


पूर्वी सिंहभूमः, 7 दिसंबरमासः (हि.स.)।
कदमास्थिते बाल्डविन् फार्म् एरिया उच्चविद्यालये रविवासरे आयोजितः विज्ञानकला-महोत्सवः ‘यूरेका 2025’ इत्याख्यः उत्साहेन, रचनात्मकतया नूतनभावनाभिश्च परिपूर्णः जातः। “यूरेका” इत्यस्य अर्थः — “लब्धम्, प्राप्तम्” इति। प्रसिद्धवैज्ञानिकस्य आर्किमिडीजस्य तस्य आविष्कारक्षणस्य प्रतीकं यदा सः आनन्दविभोरः सन् अनपेक्षितम् एव एतद् उद्गारम् उच्चारितवान्। तदेव उत्साहविभवं विद्यालयस्य विद्यार्थिभिः, शिक्षकैः, पालकैश्च दिवसम् अखिलम् अनुभूतम्। परिसरः सर्वत्र बालानां हर्षध्वनिभिः प्रतिध्वनितः — “यूरेका, लब्धम्, ज्ञातम् इति!”
कार्यक्रमस्य शुभारम्भः मुख्यातिथिना आर. के. सिंहेन (जीएम, टाउन् O & M, टाटा स्टील्), बाल्डविन् सोसाइटीयाः प्रशासकेन पियूषराजेन, आयुषरणनेन, राष्ट्रपुरस्कारलाभिना शैक्षणिकनिर्देशकेन अशोकसिंहेन, विद्यालयप्राचार्यया डॉ. शुभ्श्री सरकारेण, प्रशासकेन सचिनकुमारेण तथा विद्यालयव्यवस्थापनसमितेः सदस्यैः च संयुक्तदीपप्रज्वलनेन कृतः।
प्राचार्या डॉ. शुभ्श्री सरकार स्वभाषणे अवदत् — “यूरेका केवलं प्रदर्शनी नास्ति, किन्तु ज्ञानस्य अन्वेषणस्य, आत्मविश्वासस्य च जागरणस्य उत्सवः।” मुख्यातिथिः अपि विद्यार्थिनां प्रयोगानां चिन्तनानां च प्रशंसा कृत्वा तान् नवोन्मेषमार्गे अग्रे गन्तुं प्रेरितवान्।
विज्ञानप्रदर्शने अनेन वर्षे विद्यार्थिनां कल्पनाशक्तिः, तन्त्रज्ञानं च सर्वान् आकृष्टवन्तौ। कृत्रिमबुद्ध्या सञ्चालितरोबोट्, जलसंरक्षणतन्त्रं, सौरऊर्जासमाधानानि, पर्यावरणसंरक्षणार्थं निर्मितानि सेन्सर्-यन्त्राणि इत्यादीनि मॉडेल्-रूपेण बालकैः अद्भुततया प्रदर्शितानि, यान् दृष्ट्वा आगन्तुकाः तेषां प्रतिभां निरन्तरं प्रशंसन्ति स्म। बहुषः दर्शकानां मुखे पुनः पुनः स एव शब्दः प्रकटितः — “अयं खलु वास्तविकः यूरेका-क्षणः!”
कलाक्राफ्ट्-विभागः अपि महोत्सवस्य प्रमुखाकर्षणं अभवत्। विद्यार्थिभिः अपशिष्टद्रव्यैः निर्मिताः पर्यावरणमित्राः कलाकृतयः, जलरङ्गचित्राणि, स्केच्-रूपचित्रकला, मृत्तिकाकाष्ठक्राफ्ट्-रचनाश्च दर्शकान् विस्मयचकारुः। विद्यालयपरिसरे स्थापितानि विविधानि क्रीडास्थानानि बालकान् पालकांश्च रोमाञ्चितानकुर्वन्, खाद्यकोणः तु स्वादु-स्वच्छभोज्यैः दिवसभरं सर्वाधिकं जनसङ्कुलः आसीत्।
एतत्सम्वत्सरस्य विशेषः उपक्रमः आसीत् करियर्-परामर्शसत्रम्, यस्मिन् विविधानां विश्वविद्यालयानां विशेषज्ञैः उच्चशिक्षा, करियर्-विकल्पाः, योग्यता-आवश्यकताः च विषये उपयुक्तं मार्गदर्शनं प्रदत्तम्। छात्रपालकयोरुभयं तद् अत्यन्तं लाभदायकम् अनुभूतम्।
‘यूरेका 2025’ इत्यनेन स्पष्टरूपेण प्रदर्शितम् यत् बाल्डविन् फार्म् एरिया उच्चविद्यालयं केवलं शिक्षादानस्थानं नास्ति, अपि तु अन्वेषणस्य, प्रयोगस्य, नवोन्मेषस्य, कलात्मकतायाः, करियर्-निर्माणस्य च प्रेरणाकेन्द्रं अस्ति।
---------------
हिन्दुस्थान समाचार