Enter your Email Address to subscribe to our newsletters

नव दिल्ली/पणजी, 07 दिसंबरमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः तथा प्रधानमन्त्री नरेंद्र मोदी इत्येतौ गोवा दुर्घटनायां प्रति शोकं व्यक्तवन्तौ। प्रधानमन्त्रिणा मृतानां परिवाराणां कृते त्वरितं आर्थिकसहाय्यं घोषितम्। मोदी महोदयेन एक्स इति संदेशे उद्घोषितं यत् गोवायाः अर्पोरा प्रदेशे जाता दुर्घटनायां मृतानां प्रत्येकपरिवाराय प्रधानमन्त्री राष्ट्रीय राहत कोषतः द्विलक्षक रुप्यकाणि अनुग्रहधनरूपेण दास्यन्ते। आहताः पञ्चलक्षणं रुप्यकाणि लप्स्यन्ते।
प्रधानमन्त्रिणा एक्स इति माध्यमे लिखितं यत् “एषा घटना अत्यन्तं दुःखदायी। येषां प्रियजनाः नष्टाः तेषां सर्वेषां प्रति मम संवेदनाः। आहताः शीघ्रं सम्यक् स्वास्थ्यं लभन्ताम्। गोवा राज्यस्य मुख्यमन्त्रिणा डा प्रमोद सावन्तेन सह स्थितेः विषये चर्चिता। राज्यसरकारा पीडितजनान् प्रति सर्वां शक्यतां सहायता प्रददाति।”
एतस्मिन्नन्तरे राष्ट्रपति द्रौपदी मुर्मु इत्यनेनापि एक्ससंदेशे लिखितं यत् उत्तरगोवायां जातायाम् अग्निदुर्घटनायां बहूनि मूल्यवानि जीवितानि नष्टानि इति श्रुत्वा अत्यन्तं दुःखितास्मि। शोकसन्तप्तपरिवाराणां प्रति मम गाढा संवेदना। एतेषां कठिनकालेषु धैर्यं प्राप्यताम्। आहतानां शीघ्रं स्वास्थ्यलाभाय प्रार्थये।”
एषा दुर्घटना उत्तरगोवायाः अर्पोरा प्रदेशे रात्रौ नाइट क्लब इत्यत्र अग्निप्रज्वलनात् अभवत्। अस्यां घटने 23 जनाः मृताः। गोवा पुलिस महानिदेशकः आलोक कुमार इत्यनेन उक्तं यत् सर्वे मृताः क्लबकर्मचारिणः एव। सिलिण्डर स्फोटात् अग्निः उत्पन्ना। अद्यावधि 23 शवाः प्राप्ताः इति तेन निर्दिष्टम्।
गोवा मुख्यमन्त्री प्रमोद सावन्तः तथा स्थानीयविधायकः माइकल लोबो इत्येतौ सूचना प्राप्त्या त्वरितं घटनास्थलम् आगतः। लोबो महोदयेन उक्तं यत् अस्मिन् दुर्घटनायां कस्यापि पर्यटकस्य हानि न ज्ञायते। अधिकारिणः अवदन् यत् अग्निनिग्रहे तथा परवर्ती अनुसन्धानार्थं त्वरितं राहत बचावकार्यं प्रारब्धम्।
मुख्यमन्त्रिणा प्रमोद सावन्तेन दुर्घटनां प्रति शोकः व्यक्तः। सः जगाद यद् “एषा घटना पर्यटनप्रधानस्य गोवा राज्यस्य कृते अत्यन्तं दुर्भाग्यपूर्णा। येजनाः नियमलङ्घनं कृत्वा अवैधरीत्या एतादृशं संस्थानं प्रवर्तितवन्तः, तेषां कारणेनैव एषा दुर्घटना जाताः तथा 23 जनानां प्राणहानिः अभवत्। सरकारा अस्याः घटनायाः विषये अनुसन्धानं करिष्यति।”
---------------
हिन्दुस्थान समाचार