Enter your Email Address to subscribe to our newsletters



-उप-राष्ट्रपति राधाकृष्णन् ओम शांति रिट्रीटकेंद्रस्य रजत जयंती वर्षस्य शुभारंभे उक्ता वार्ता
गुरुग्रामः, 7 दिसंबरमासः (हि.स.)। भारतात् उपराष्ट्रपतिः सी पी राधाकृष्णन् अवदत् यत् भारतस्य ऋषीणां, मुनिनांं, तपस्विनां च साधना एव विश्वं ध्यानस्य, आत्मबलस्य, सत्यमार्गस्य च दिशि अग्रे नीतवती। राजयोगः, विपश्यना, तपश्चर्या च इति समृद्धा आध्यात्मिकपरम्परा अद्यतनकाले भारतं विश्वगुरुपदम् अभिमुखं नयति। तेनोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिने निर्दिष्टे ‘विकसितभारत–२०४७’ संकल्पे एषा एव आध्यात्मिकशक्ति राष्ट्रस्य मार्गदर्शिका वर्तते।
उपराष्ट्रपतिः रविवासरे गुरुग्राम–जिलस्य बोहडाकलां नाम ग्रामे स्थितस्य ब्रह्माकुमारी–ईश्वरीय–विश्वविद्यालयस्य ओम् शान्ति रिट्रीट् सेन्टरस्य रजत–जयन्ती–वर्षस्य उद्घाटन–समारोहेषु अभिभाषणं दत्तवान्। तस्य हरियाणा–प्रवेशे उद्योग–वाणिज्य–मन्त्री राव नरबीरसिंहेन स्वागतं कृतम्।
उपराष्ट्रपतिना दीपप्रज्वलनेन कार्यक्रमस्य शुभारम्भः कृतः। तेन स्वीयस्य भाषणस्य मध्ये उक्तम्— ध्यानं आत्मनः, मनसः, शरीरस्य च गहनां शान्तिं ददाति। ध्यानावस्थायाम् सकारात्मकविचाराः जायन्ते, आन्तरिकऊर्जायाः प्रवाहः च वर्धते। अस्य ध्यानानुभवस्य मध्ये एव विमानक्षेत्रात्, चिकित्साक्षेत्रात्, विज्ञानात्, प्रशासनात्, सामाजिकसेवायां, राजनीत्यां च आगताः अनेकाः व्यक्तयः दृष्टाः— यत् ध्यानं आध्यात्मिक–शान्तिश्च सर्वेषां मनुष्याणां अनिवार्या एव इति साक्ष्यं भवति।
उपराष्ट्रपतिः अवदत् यद्धर्मपालनं शान्तिं च विजयम् उभयं ददाति। मनसः जयः एव प्रथमं सफलतासूत्रम्— एतदेव गीताया उपदेशः। यावत् वयं अन्तः सकरात्मकतां, विनम्रतां, सेवादृष्टिं च न स्वीकरोमि, तावत् मनः–शान्तिः न सम्भवति। तमिळ–परम्परायाः महाकविः तिरुवल्लुवरः अवदत् यन्मनसि सहस्रशः विचाराः आगच्छन्ति, परन्तु जीवनस्य अपरः क्षणः अपि निश्चिन्तः न भवति।” तस्मात् चिन्ता न कर्तव्या, किं तु सद्कर्म, सद्भाव, समाज–सेवा च एव मनुष्याय सत्यां शान्तिं यच्छतः।
तेन संस्थायाः मानव–हिताय प्रयुक्तानां सत्कार्याणां प्रशंसा अपि कृता।
उपराष्ट्रपतिः सी पी राधाकृष्णन अवोचत् यत् अस्माकं संस्कृतेः नित्यं सर्वेषां विश्व–भूतानां कल्याण–सन्देशः एव निहितः अस्ति। आध्यात्मिकता अस्माकं महान् बलम्— सा प्रत्येकस्य मनुष्यस्य अन्तः विद्यमाना अस्ति, किन्तु तस्य अवगमः, अन्वयः च आवश्यकः।
कार्यक्रमे ब्रह्माकुमारी–ज्यूरिस्ट्–विङ्गस्य अध्यक्षा राजयोगिनी बी के पुष्पा, ओम्–शान्ति रिट्रीट्–सेन्टर–निदेशिका राजयोगिनी बी के आशा, अफ्रीका–क्षेत्रीय–समन्वयिका राजयोगिनी बी के वेदान्ती, माउण्ट् आबू–आश्रमात् महासचिवः राजयोगी बी के करुणा, गुरुग्राम–ओम्–शान्ति–सेन्टर–निदेशिका राजयोगिनी बी के शुक्ला, महिला–विङ्ग–अध्यक्षा राजयोगिनी बी के चक्रधारी च उपराष्ट्रपतिम् अभिनन्दितवन्तः।
अवसरे उपराष्ट्रपतेः सचिवः अमित खरे, जिलाधिकारी अजयकुमारः, संयुक्त–सी पी संगीता कालिया, डी सी पी ट्रैफिक् राजेशमोहनः, एस डी एम दिनेश लुहाचः, अन्ये च गणमान्याः जनाःउपस्थिताः आसन्।
----
हिन्दुस्थान समाचार