Enter your Email Address to subscribe to our newsletters

भोपालम्, 07 दिसम्बरमासः (हि.स.)। मध्यप्रदेशेऽपि अद्य रविवासरे जिला सैनिककल्याणकार्यालयेन सशस्त्रसेना ध्वजदिवसः आयोजितः।एषः दिवसः देशे प्रतिवर्षं सप्तमे डिसेम्बर मासे भारतीयसशस्त्रसेनानां शहीदसैनिकानां, सेवारतसैनिकानां, तेषां परिवाराणां च सम्मानरूपेण मन्यते। अस्याः अवसरस्य निमित्तं जनसामान्येभ्यः टोकन इति चिह्नानि, वाहनध्वजांश्च वितर्य सैनिकानां निष्ठा देशसेवायां च योगदानस्य स्मरणम् उपजन्यते।
मुख्यमन्त्री डॉ मोहन यादवः अस्याः अवसरस्य सन्देशे अवदत्—“मध्यप्रदेशः सशस्त्रसेनायां शतशः वीरान् दत्तवान्, यैः स्वबलिदानैः राज्यस्य गौरवम् अभिवर्धितम्।भारतीयसैनिकानां राष्ट्रवासिभिः सह परस्परानुरागस्य अभिव्यक्तये ध्वजदिवसनिधौ नागरिकानां स्वेच्छानुदानस्य गौरवमयी परम्परा वर्तते। सशस्त्रसेना ध्वजदिवसः प्रदेशवासिभ्यः हुतात्मपरिवाराणां, आवश्यकतापीडितानां विकलाङ्गपूर्वसैनिकानां, भूतपूर्वसैनिकानां तेषां आश्रितानां च सहायतार्थं अंशदानं दत्वा तेषां प्रति स्नेहपूर्णमानवन्दना प्रदर्शितुं स्वर्णसम्मितः अवसरः अस्ति।तेन समस्तप्रदेशवासिभ्यः आह्वानम् उक्तम्—“अधिका अंशदानानि दत्वा भारतीयसशस्त्रसेनानां प्रति समर्थनं कुर्वन्तु।”
हिन्दुस्थान समाचार