कियज्जातं मध्यप्रदेशे एनईपी-2020 प्रति कार्यं, परिस्थितिं संभावनाः प्रति एक दिवसीया कार्यशाला अद्य
- राज्यपाल, मुख्यमंत्री, केंद्रीय शिक्षा मंत्री, उच्च शिक्षा मंत्री एवं विद्यालयीयशिक्षा मंत्री समेत्य विद्वांसः करिष्यन्ति विमर्शम् भोपालम्, 7 दिसंबरमासः (हि.स.)। मध्यप्रदेशे राष्ट्रियशिक्षानीतिः 2020 इत्यस्य क्रियान्वयनं तस्याः चुनौतयः संभावना
मप्र में एनईपी-2020 पर कार्यशाला आज


- राज्यपाल, मुख्यमंत्री, केंद्रीय शिक्षा मंत्री, उच्च शिक्षा मंत्री एवं विद्यालयीयशिक्षा मंत्री समेत्य विद्वांसः करिष्यन्ति विमर्शम्

भोपालम्, 7 दिसंबरमासः (हि.स.)।

मध्यप्रदेशे राष्ट्रियशिक्षानीतिः 2020 इत्यस्य क्रियान्वयनं तस्याः चुनौतयः संभावनाश्च चर्चायै अद्य रविवासरे कुशाभाऊ ठाकरे अन्तरराष्ट्रीय सम्मेलनकेन्द्रे भोपालनगरे एकदिनेय कार्यशाला आयोजिताऽस्ति। मुख्यातिथिरूपेण राज्यपालः मंगुभाई पटेलः उपस्थितः। मुख्यमन्त्री डॉ मोहन यादव कार्यशालायाः अध्यक्षतां करिष्यन्ति। विशिष्टातिथिरूपेण केन्द्रियशिक्षामन्त्री धर्मेन्द्रप्रधानः, उच्चशिक्षामन्त्री इन्द्रसिंह परमारः, तथा विद्यालयशिक्षामन्त्री उदयप्रतापसिंहः उपस्थास्यन्ति। अस्याः कार्यशालायाः आयोजनम् उच्चशिक्षाविभागेन क्रियते।

उच्चशिक्षायाः आयुक्तः प्रबल सिपाहाः उक्तवान् यत् राज्यसरकारा राष्ट्रीयशिक्षानीतिः 2020 इत्यस्य प्रभावी क्रियान्वयनाय, संरचनात्मकसुधाराय, अकादमिकउन्नयनाय, संस्थागततत्परतानां सुदृढीकरणाय च निरन्तरं कार्यं करोति। कार्यशालायाः उद्देश्यः नीत्याः गहनबोधनं विकसितुं, क्रियान्वयनस्य प्रगतिं मूल्याङ्कर्तुं, संस्थागतचुनौतयः अवगन्तुं, तथा पाठ्यक्रमसरलीकरणं, डिजिटल रूपान्तरणं, शोध नवोन्मेष च, उद्योगअकादमिकसहयोगश्च, एतेषां प्रमुखक्षेत्राणां विषये व्यावहारिकमार्गदर्शनं प्रदातुम् अस्ति।

कार्यशालायां पञ्च सत्राणि भविष्यन्ति।

कार्यशालायां कुलं पञ्च सत्राणि आयोजितानि भविष्यन्ति, यत्र शिक्षाविद्भिः विशेषज्ञैश्च विस्तृतं मननमालोचनं भविष्यति। विषयाः निम्नलिखिताः —

• एनईपी 2020 इत्यनेन उच्चशिक्षायाः रूपान्तरणम्

• संरचनात्मकसुधाराः संस्थागततत्परता च

• पाठ्यक्रम शिक्षणविधेः सुधारः

• लचीलापनं कौशलैक्यं परिणामाधारितशिक्षणं च

• मध्यप्रदेशे विदेशीविश्वविद्यालयानां शैक्षिकसंस्थापनानां च व्यवस्था, नीतिप्रावधानानि संभावनाः गुणवत्तावर्धनं च

• विद्यालयशिक्षायां एनईपी 2020 इत्यनुसारं परिवर्तनम्

• विद्यालयेषु कृत्रिमबुद्धेः कौशलनिर्माणस्य च भूमिका

एतेषां सत्राणां माध्यमेन प्रदेशस्य उच्चशिक्षासंस्थानेभ्यः एकः व्यावहारिकः क्रियाशीलः रोडमैप इति निर्माणं करिष्यते, येन ते स्वशैक्षणिकप्रशासनिकडिजिटलसंरचनाः राष्ट्रीयशिक्षानीतेः अनुरूपं सुदृढीकरिष्यन्ति।

विद्यालयशिक्षायाः आयुक्ता शिल्पा गुप्ता व्यक्तवती यत् राष्ट्रियशिक्षानीतिः 2020 इत्यस्य सफलं क्रियान्वयनं राज्ये सम्पाद्यमानम् अस्ति। सांदीपनि विद्यालयस्य स्थापना एकं महत्त्वपूर्णं पादप्रयोजनम्, यत् भारतीयज्ञानपरम्परायाः मूल्याधारितशिक्षायाः तन्त्रज्ञानसक्षमाधिगमस्य च उत्कृष्टमेकत्रीकरणमिव आदर्शरूपेण प्रस्तुत्यिष्यति। विद्यालयशिक्षाविभागः एनईपी 2020 इत्यस्य लक्ष्यपूर्त्यर्थं शिक्षकप्रशिक्षणं डिजिटलमञ्चाः मूल्याङ्कनसुधाराः नवोन्मेषाधारिताधिगमस्य प्रोत्साहनं च करोत्।

उल्लेखनीयम् यत् राष्ट्रीयशिक्षानीतिः 2020 देशस्य उच्चशिक्षाव्यवस्थायां व्यापकपरिवर्तनस्य मार्गं प्रसारयति, यत्र बहुविषयीशिक्षणं लचीलापनम् कौशलाधारितशिक्षणम् डिजिटलाध्ययनम् शोधवर्धनम् विश्वीकरणं च विशेषमहत्त्वेन निर्दिष्टम्।

---------------

हिन्दुस्थान समाचार