शिक्षाव्यवस्थायां भारतीयतायाः प्रतिष्ठापनम् राष्ट्रीय–शिक्षानीतेः मुख्यलक्ष्यम् – धर्मेन्द्रप्रधानः
–मध्यप्रदेशराज्ये राष्ट्रीय–शिक्षानीति–2020 क्रियान्वयनम्, संकल्पनाः, संभावनाश्च विषयककार्यशाला सम्पन्ना भोपालम्, 07 दिसम्बरमासः (हि.स.)। केन्द्रीय–शिक्षामन्त्री धर्मेन्द्रः प्रधानः शिक्षां प्राधान्यविषयत्वेन स्थापयितुं मध्यप्रदेश–सरकारस्य कृतज्ञत
केंद्रीय मंत्री धर्मेंद्र प्रधान ने मप्र की राजधानी भोपाल में एक दिवसीय कार्यशाला को संबोधित किया


राज्यपाल मंगुभाई पटेल भोपाल में एक दिवसीय कार्यशाला को संबोधित किया


मुख्यमंत्री डॉ. मोहन यादव ने भोपाल में एक दिवसीय कार्यशाला को संबोधित किया


–मध्यप्रदेशराज्ये राष्ट्रीय–शिक्षानीति–2020 क्रियान्वयनम्, संकल्पनाः, संभावनाश्च विषयककार्यशाला सम्पन्ना

भोपालम्, 07 दिसम्बरमासः (हि.स.)। केन्द्रीय–शिक्षामन्त्री धर्मेन्द्रः प्रधानः शिक्षां प्राधान्यविषयत्वेन स्थापयितुं मध्यप्रदेश–सरकारस्य कृतज्ञतां प्रकटयन् अवदत् यत् मध्यप्रदेशराज्येन संस्कृति–धर्म–ज्ञानपरम्परायाः निरन्तरता रक्षितुं महत्वपूर्णं योगदानम् दत्तम्। वैज्ञानिकता, दार्शनिक–स्पष्टता, आध्यात्मिकता च भारतीय–शिक्षाव्यवस्थायाः आधारः आसन्। मैकोलेन स्थापितायां शिक्षाव्यवस्थायां भारतीयभावस्य प्रतिष्ठापनमेव राष्ट्रीय–शिक्षानीतेः उद्देश्यमिति प्रधानः उक्तवान्।

केन्द्रीय–मन्त्री प्रधानः रविवासरे राजधानी–भोपालस्य कुशाभाऊ–ठाकरे–सभागारे आयोजितायां “राष्ट्रीय–शिक्षानीति 2020 : क्रियान्वयनम्, चुनौतयः एवं संभावनाः” इति विषयककार्यशालायां संबोधनं दत्तवान्। कार्यशालायां मध्यप्रदेशस्य राज्यपालः मंगुभाई–पटेलः, मुख्यमन्त्री डॉ. मोहन–यादवः, उच्च–शिक्षामन्त्री इन्दर–सिंह–परमारः, शाला–शिक्षामन्त्री उदय–प्रताप–सिंहः, अल्पसंख्यक–पिछड़ावर्ग–कल्याण–राज्यमन्त्री कृष्णा–गौर इत्येते उपस्थिताः आसन्।

केन्द्रीय–मन्त्री प्रधानः राज्यस्य शैक्षणिकसंस्थासु क्वाण्टम्–कम्प्यूटिङ्, एआई इत्यादीनि नवयुगीय–कौशलानि विस्तारितुं आवश्यकताां प्रदर्शितवान्। सः अवदत् यत् शालास्तरे विद्यार्थिनः कक्षा–द्वादश–पर्यन्तं निरन्तरम् अध्ययने स्थिताः स्युः, शोधकार्यं स्थानीय–आवश्यकताभिः संयुक्तं स्यात्, शैक्षणिकसंस्थासु समाजस्य भागीदारी वर्धयितव्या, तथा संस्थानां प्रबन्धनं समाजस्य प्रति उत्तरदायी कर्तव्यम्। प्रधानः पौष्टिक–आहार–अभियाने समाजस्य सहभागितां समाश्रित्य आयोजनेषु महत्त्वेन उपयुज्यमानानां पुष्पगुच्छानां स्थाने फल–टोकर्या‌ः द्वारा स्वागतनवाचारस्य सुझावम् अपि दत्तवान्। सः अवदत् यत् रोजगारपरकं नवाचारमुखं शिक्षणम् जनआन्दोलनेन रूपान्तरितव्यम्।

भारतात् भविष्याय दिशादायिनी दूरदर्शी योजना अस्ति राष्ट्रीय–शिक्षानीतिः – राज्यपालः पटेलः

राज्यपालः मंगुभाई–पटेलः अवदत् यत् मध्यप्रदेशं शिक्षापरिवर्तनस्य दिशायां देशस्य अग्रराज्यं कर्तुं नीतिदिशा–लक्ष्य–समन्वित–कार्यसंस्कृति इत्यादीनां माध्यमेन प्रयत्नाः कर्तव्याः। युवानां विश्वासप्रतीकत्वेन राष्ट्रीय–शिक्षानीति–2020 प्रतिष्ठिता, सा भारतस्य भविष्याय नूतनां दिशा दातुं सक्षमाऽस्ति, यस्याः मूलस्वभावः “समग्रता” इति। सः नीतौ निर्दिष्टानां समग्र–शिक्षा, समग्र–विकासः, समग्र–राष्ट्रनिर्माणम् इत्यादीनां लक्ष्येषु निहिताः चुनौतिः तथा मध्यप्रदेशस्य विशेषपरिस्थितिषु विद्यमानाः संभावनाः इत्येतयोः प्रभावी–क्रियान्वयनार्थं सामूहिक–चिन्तनस्य पहलां सराहितवान्।

राष्ट्रीय–शिक्षानीति–2020 क्रियान्वयने मध्यप्रदेशः देशे अग्रणी : मुख्यमन्त्री

मुख्यमन्त्री डॉ. मोहन–यादवः उवाच यत् राष्ट्रीय–शिक्षानीति–2020 क्रियान्वयने मध्यप्रदेशराज्यं देशे अग्रणीस्थितिम् अवाप्तम्। राज्येन एतां नीतिम् केवलं शैक्षणिक–सुधाररूपेण न दृष्ट्वा, अपितु कौशल–विकास, नवाचार–प्रवर्तन, सांस्कृतिक–पुनर्जागरण–इत्यादिभिः संयुक्तम्। राज्यस्य विश्वविद्यालयेषु कुलपतिभ्यः “कुलगुरु” इति संबोधनं प्रदाय प्राचीन–गुरुकुल–आदर्शस्य आधुनिक–व्यवस्थया सामञ्जस्यकरणं कृतम्। मुख्यमंत्री अवदत् यत् विश्वइतिहासे ये महापुरुषाः समयधारां परिवर्तितवन्तः, तेषां व्यक्तित्वनिर्माणे गुरूणां भूमिका अत्यन्तं महत्वपूर्णा आसीत्।

कार्यशालायाः आरम्भे राज्ये सञ्चालितानां सांदीपनि–विद्यालयानां विषये लघु–चलच्चित्रस्य प्रदर्शनम् अभवत्। भोपाल–नगरपालिका–निगमस्य महापौर–मालती–राय, विधायक–रामेश्वर–शर्मा, भगवानदास–स्बनानी, मध्यप्रदेश–हिन्दी–ग्रन्थ–अकादमी–संचालकः अशोक–कडेलः च विशेषतः उपस्थिताः। कार्यशालायां उच्च–शिक्षायाः आयुक्तः प्रबल–सिपाहाः, स्कूल–शिक्षायाः आयुक्ता श्रीमती शिल्पा–गुप्ता, शासन–निजि–विश्वविद्यालयानां कुलगुरवः, महाविद्यालय–प्राचार्याः, शिक्षाविदः, विद्यार्थीजनाः च उपस्थिताः आसन्।

_________________

हिन्दुस्थान समाचार