Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 07 दिसंबरमासः (हि.स.)। अतीतेषु कतिपयदिवसेषु देशस्य विमाननक्षेत्रे उत्पन्नायाः अव्यवस्थायाः विषये केन्द्रीयसर्वकारः सक्रियाभवद्। केन्द्रीयनागरिकउड्डयनराज्यमन्त्री मुरलीधरः किसनः मोहोल् इति महोदयः अस्य परिस्थितेः प्रत्यक्षं दायित्वम् इंडिगो एयरलाइन् संस्थायाः प्रबन्धने एव स्थापयामास।
मन्त्री मोहोल् अवदत् यत् दिल्लीउच्चन्यायालयेन अनुमोदिताः फ्लाइट् ड्यूटी टाइम् लिमिट् (एफडीटीएल) नियमाः यथाविधि न प्रवर्तिताः, तत्र इंडिगो संस्थया अवहेलनां कृता। अस्य परिणामरूपेण परिचालनं प्रभावितम्, यात्रिणश्च तीव्रान् क्लेशान्अनुभवन्। न्यायालयस्य निर्देशनानुसारम् ड्यूटीकालः दशघण्टाभ्यः घटयित्वा अष्टघण्टानां कर्तव्य इति आदेशः दत्तः आसीत्।
महोदयेन उक्तं यत् मन्त्रालयेन सर्वासु विमानसंस्थासु एतस्य नियमनस्य प्रवर्तनं द्वाभ्याम् अवस्थाभ्याम् कर्तव्यम् इति निर्दिष्टं यत् ०१ जुलाई २०२५, तथा ०१ नवम्बर २०२५ इति। किन्तु इंडिगो संस्थया एतत् गम्भीरतया न स्वीकृतम्। ततः परिस्थितेः विकृत्य अनन्तरं मन्त्रालयेन डीजीसीए सह त्वरितकार्यरूपेण चतुरसदस्यकान् अन्वेषणसमितिम् गठितम्, तथा २४×७ नियंत्रणकक्षः अपि स्थापनः।
सर्वकारः एफडीटीएल नियमनस्य प्रवर्तनकालमर्यादां अद्यतनतया फरवरी २०२६ पर्यन्तं स्थगितवती। एतस्मिन् सन्दर्भे नागरविमाननमहानिदेशालयेन (डीजीसीए) इंडिगो संस्थायाः सीईओ महोदयाय शो–काज् नोटिस् प्रदत्तः, यत् सः २४ घण्टेषु प्रत्युत्तरं दद्यात्।
मन्त्री मोहोलः अवदत् यत् यात्रिणाम् आक्रोशः युक्तः एव, तथा अन्वेषणवृत्तान्तस्य आगमनात् अनन्तरं दोषिभ्यः कठोराः दण्डाः विधास्यन्ते। सः अभ्याशं दत्तवान् यत् विमानसेवाः शीघ्रमेव सामान्यावस्थां प्राप्स्यन्ति।
एवमेव सर्वकारोऽकस्मात् वर्धितानां विमानकिरायाणां नियन्त्रणार्थं नूतनां किरायासूचिकां प्रकाशितवती। यस्य संकटस्य कारणेन ये यात्रिणः क्लेशमानाः अभवन्, तेभ्यः विना रद्दशुल्कं पूर्णधनपरिहरणं दास्यते, यात्रिणां नष्टसामानं च अष्टचत्वारिंशद्घण्टानां मध्ये प्रत्यावर्त्यताम् इति आदेशः दत्तः अस्ति।
---------
हिन्दुस्थान समाचार