प्रधानमंत्रिव्यावहारिकप्रशिक्षणम् : जीविकामेलापके 476 युवभ्यो लब्धो जीविकावसरः
लखनऊ, 7 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ नगरेऽलिगञ्जप्रदेशे स्थिते राजकीयऔद्योगिकप्रशिक्षणसंस्थाने प्रधानमंत्रिव्यावहारिकप्रशिक्षणयोजनायाः अन्तर्गतं युवानां नियोजनार्थं रोजगारमेलनामकः कार्यक्रमः आयोजितः। मोदियोगीसर्वकारौ यथाशक्ति अ
रोजगार मेले में शामिल युवा


लखनऊ, 7 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशस्य राजधानी लखनऊ नगरेऽलिगञ्जप्रदेशे स्थिते राजकीयऔद्योगिकप्रशिक्षणसंस्थाने प्रधानमंत्रिव्यावहारिकप्रशिक्षणयोजनायाः अन्तर्गतं युवानां नियोजनार्थं रोजगारमेलनामकः कार्यक्रमः आयोजितः। मोदियोगीसर्वकारौ यथाशक्ति अधिकान् युवान् रोजगारं नियोजने च दातुं प्रयत्नमानौ स्तः। अस्मिन् मेले ४७६ यूवानो रोजगारप्रस्तावान् प्राप्तवन्तः।

प्रधानमंत्रीइण्टर्नशिपयोजनाया अन्तर्गतं लखनऊनगरे शनिवासरे आयोजिते अस्मिन् रोजगारमेले क्षेत्रीयसेवायोजनविभागस्य अधिकारिणां सक्रियसहयोगोऽभूत्। अत्र रोजगारलाभस्य आशया प्रातःकालादेव युवानां आगमनं प्रवृत्तम्, सायंकालपर्यन्तं चयनप्रक्रिया अविरता प्रवृत्ता च। वाहननिर्माणेन सम्बद्धाः अनेकाः कम्पन्यः प्रायः १५०० पदानां पूर्त्यर्थं प्रशिक्षितान् यूनः चयनयितुं आगताः, तत्र ६०० युवानः स्वं पञ्जीकरणं कृतवन्तः। युवानां चयनप्रक्रियायाः अनेकानि चरणानि आसीत्। तत्रापि केचन विद्यार्थिनः स्वस्य पाठ्यक्रमसम्बद्धां सामान्यज्ञानां दातुं न शक्तवन्तः, येन कारणेन आगताः अधिकारिणः न्यूनसंतोषं प्राप्नुयुः।

४७६ यूनां नियोजनम् प्राप्तम्

आईटीआइ लखनौ प्रधानाचार्यः राजकुमारनामकः अवदत् यत् अस्मिन् रोजगारमेले देशप्रदेशाभ्यां ३३ कम्पन्यः प्लेस्मेण्टकार्याय आगताः। १५०० पदेषु चयनप्रक्रियायां भागग्रहणाय ६०० अतिरिचिताः अभ्यर्थिनः आगताः। सर्वाणि चरणानि सम्पन्नानि पश्चात् ४७६ युवानः रोजगारप्रस्तावान् लब्धवन्तः। सः अवदत् यत् चयनिताः अभ्यर्थिनः १०००० तः २७००० रुपयेपर्यन्तं वेतनम्, मध्याह्नभोजनम्, वसनम्, आवश्यकचिकित्सासुविधाश्च प्राप्तुं शक्नुयुः। एषः रोजगारमेला प्रधानमंत्रीइण्टर्नशिपयोजनाया अन्तर्गतं आयोजितः आसीत्।

एवंविधाः आयोजनाः अनुवर्तिष्यन्ते

राजकीयआईटीआई अलीगञ्जलखनौस्थस्य प्लेस्मेण्टाधिकारी एमए खाननामकः अवदत् यत् बहवः अभ्यर्थिनः उत्तमानि रोजगारस्थानानि प्राप्तवन्तः, मेले च सकारात्मकफलानि दृष्टानि। सः उक्तवान् यत् बहुषः दीर्घविरामेन कतिपये युवा तांत्रिकज्ञानं विस्मरन्ति, तथा केचन निजीसंस्थानानि अपि अभ्यर्थिनः मानकानुरूपं न शिक्षयन्ति। एते कारणानि सन्ति येन केचन युवा रोजगारमेले सफलतां न प्राप्नुवन्ति। ते अवदन् यत् एतादृशानि रोजगारमेलानवरतं भविष्यति।

---------------

हिन्दुस्थान समाचार