Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 7 दिसंबरमासः। उपराष्ट्रपतिः सी पी राधाकृष्णन् रविवासरे गुरुग्रामे स्थितस्य ब्रह्माकुमारीसंस्थायाः ओम् शान्ति रिट्रीटकेंद्रस्य रजत जयन्ती वर्ष समारोहस्य शुभारम्भं कृतवान्। अस्मिन्नवसरे तेन अवदत् यत् भारतस्य सनातन आध्यात्मिक परम्परायाः आधारः ऋषीणां मुनिनां तपस्या ध्यान साधना च एव।
उपराष्ट्रपतिःक्ष सचिवालयस्य वक्तव्येन राधाकृष्णन महोदयः अवोचत् यत् चतुर्विंशतिवर्षपूर्वं स्थापितं एतत् केन्द्रं अधुना सेवाया पंचविंशतितमे वर्षे प्रविष्टम् अस्ति। एतत् गौरवस्य विषयः यत् ब्रह्माकुमारी संस्था स्त्री नेतृत्वे देशस्य आध्यात्मिक उत्थाने महत्त्वपूर्णां भूमिकां वहति।
तेन उक्तं यत् वैज्ञानिकाः चिकित्सकाः प्रशासकाः राजनीतिज्ञाश्च विविध क्षेत्रेषु स्थिताः जनाः अस्मात् केन्द्रात् संयुक्ताः सन्तः ध्यानं शान्तिं च अवगच्छन्ति।
अथ तेनोक्तं यत् राजयोग विपश्यना च साधनाः दर्शयन्ति यत् वास्तविक शक्ति स्पष्टता च मनुष्यस्य अन्तःकरणात् एव उदेति। अमृतकाले प्रधान मन्त्रिणा नरेन्द्रमोदिनि निर्दिष्टे विकसित भारत २०४७ इति संकल्पे अन्तः शान्तिः प्रसन्नता समत्वं च जीवनस्य अनिवार्य भागः भवितुम् अर्हति।
राधाकृष्णनमहोदयेन ओम् शान्ति रिट्रीट सेन्टरस्य पर्यावरण संरक्षण प्रयासानां प्रशंसा अपि कृता। तेनोक्तम् यत् एतत् केन्द्रं प्रधान मन्त्रिणः मिशन लाइफ कार्यक्रमस्य अनुरूपं कार्यं करोतिः। एक मेगावाट हाइब्रिड सौर योजना वर्षा जल संचयन बायोगैस संयन्त्र सीवेज उपचार संस्थान हरित पाक गृह वृक्षारोपण इत्यादयः विशेषतया प्रशंसिताः।
उपराष्ट्रपतिः नशा मुक्त भारत अभियानं वरिष्ठ नागरिक सम्मान कर्मयोग प्रवर्धनं च ब्रह्माकुमारी संस्थाया योगदानं अपि सराहितवान्। सः राष्ट्रपति द्रौपदी मुर्मु महोदया लखनऊ पुर्यां प्रारब्धं राजयोग ध्यान द्वारा विश्व एकता विश्वास अभियानम् अपि निर्दिश्य अवदत् यत् रजत जयन्ती वर्षं समाजस्य आध्यात्मिक जागरणे नवान् आयमान् स्थापयिष्यति।अन्ते हरियाणा सरकारस्य पर्यावरण उद्योग मन्त्री राव नरबीरसिंहः ब्रह्माकुमारी संस्थाया वरिष्ठ पदाधिकारिणः च कार्यक्रमे उपस्थिताः आसन्।
-----------
हिन्दुस्थान समाचार