जयपुरे ‘वेटरन्स ऑनर्सधावनम्’, 21 किमीमिते अर्धे मैराथनस्पर्धा धर्मेंद्र पूनिया प्रथमः
जयपुरम्, 7 दिसंबरमासः (हि.स.)। भारतीयसेनायाः दक्षिणपश्चिमकमानस्य प्रतिनिधिभिः रविवासरस्य प्रभाते जयपुरे जयपुर वेटरन्स ऑनर्स रन इति आयोजनं कृतम्। ऐतिहासिकल्बर्टहाल् तथा रामनिवासबागप्रदेशात् आरब्धायां अस्याम् मैराथने एकविंशतिः बिन्दु एक किमी, दश कि
जयपुर में ‘वेटरन्स ऑनर्स रन’ को रवाना करते हुए मुख्यमंत्री भजनलाल शर्मा।


जयपुर में वेटरन्स ऑनर्स रन में धावक


जयपुरम्, 7 दिसंबरमासः (हि.स.)।

भारतीयसेनायाः दक्षिणपश्चिमकमानस्य प्रतिनिधिभिः रविवासरस्य प्रभाते जयपुरे जयपुर वेटरन्स ऑनर्स रन इति आयोजनं कृतम्। ऐतिहासिकल्बर्टहाल् तथा रामनिवासबागप्रदेशात् आरब्धायां अस्याम् मैराथने एकविंशतिः बिन्दु एक किमी, दश किमी, पञ्च किमी इति तिसृषु श्रेणीषु अनेके युवकाः, पूर्वसैनिकाः, सामान्यनागरिकाश्च सहभागितां कृतवन्तः।

एकविंशतिः बिन्दु एक किलोमीटरमितायाः हाफमैराथनस्य शुभारम्भः प्रातः प्रायेण षड्वादने कृतः। अस्मिन् धर्मेन्द्रपूनिया इत्यनेन एकघण्टा त्रिमिनिट् दशसेकेण्ड् समये धावनं समाप्तं कृत्वा प्रथमस्थानं प्राप्तम्। धर्मेन्द्रः अधुना भारतीयसेनायां सेवां कुर्वन् अस्ति तथा आर्मीइन्स्टीट्यूट पुणे इत्यत्र प्रशिक्षणं प्राप्नोति। दशकिलोमीटरधावे बनारसस्थिता नीतापटेल् इत्यस्या त्रिंशन्मिनिट् एकादशसेकेण्ड् समये धावनं कृत्वा प्रथमस्थानं प्राप्तम्। भगवतीदेवडा द्वितीयं स्थानं नीताद्वितीया धाविका तृतीयं स्थानं प्राप्तवती। नीतापटेल् विशेषतया अस्यै मैराथनाय बनारसात् जयपुरं प्राप्तवती।

पञ्चकिलोमीटरधावे अपि बहवः युवकाः वरिष्ठनागरिकाश्च सहभागीभूताः। झुँझुनूं स्थितसैनिकविद्यालयस्य चत्वारिंशत् छात्राः अपि अस्मिन् कार्यक्रमे भागं कृतवन्तः। विद्यालयस्य शिक्षकः रोमीशर्मा इत्यनेन उक्तं यत् छात्रैः षण्मासपर्यन्तं कठोराभ्यासः कृतः, तस्य फलम् अद्य दृष्टम्। पञ्चकिलोमीटरधावे सर्वे धावकाः शीर्षत्रिंशत्स्थानान्तर्गताः बभूवुः, दशकिलोमीटरधावने सहभागिनः छात्राश्च शीर्षपञ्चाशत्स्थानान्तर्गताः स्थिताः।

चतुःषष्टिवर्षीयः सेवानिवृत्तः सूबेदार् लादुसिंहः, यस्य त्रिमासपूर्वं शल्यक्रिया जाता आसीत्, सः अपि पञ्चकिलोमीटरधावे भागं कृत्वा चतुर्विंशतिमिनिट् समये दौडां समाप्तां कृत्वा सर्वान् प्रेरितवान्।

मैराथनस्य आयोजनस्य निमित्तं यातायातव्यवस्थायां बहूनि परिवर्तनानि कृतानि। सिन्धीकैम्पात् आगच्छन्त्यः गच्छन्त्यश्च बसयः वैकल्पिकमार्गैः प्रेषिताः। दिल्ली आग्रमार्गेण गच्छन्ति ये स्थूलवाहनानि तानि अन्यमार्गेषु परिवर्तितानि। यातायातपुलिस्या सामान्यजनानां प्रति सहयोगाभ्यर्थना कृताः।

कार्यक्रमस्य आरम्भः मुख्यमन्त्रिणा भजनलालशर्मेण फ्लैगोफ् कृत्वा अभवत्। ते अवदन् यत् एषा ऑनररन् देशस्य अमरशहीदानां वीरसैनिकानां च समर्पिता, ये मातृभूमेः रक्षणाय स्वं सर्वस्वं न्यच्छन्। एषा केवलं धावनस्पर्धा न, अपितु राष्ट्रे प्रति सम्मानस्य कृतज्ञतायाः च अभिव्यक्तिरूपम्। ते अवदन् यत् अस्माकं सैनिकाः राष्ट्रस्य अमूल्यो निक्षेपः। तेषां त्यागेन बलिदानेन च एव देशः सुरक्षितः। सर्वेषां कर्त्तव्यं यत् सेना सम्माननीया, युवासंततिः च तेषां साहसात् प्रेरणां गृह्णीयात् इति। ते युवान् प्रति आग्रहं अकुर्वन् यत् ते स्वजीवने फिट्नेस् अनुशासनम् राष्ट्रभक्तिं च स्वीकरोतु।

अस्मिन्नवसरे दक्षिणपश्चिमकमानस्य जनरल् ऑफिसर् कमान्डिंग् इन चीफ् लेफ्टिनन्ट् जनरल् मंजिन्दर् सिंहः, पूर्वनौसेनाध्यक्षः एड्मिरल् माधवेन्द्रसिंहश्च उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार