Enter your Email Address to subscribe to our newsletters

सर्वकारस्य उद्देश्यम् अधिकतमजनेभ्यश्शैथिल्यस्य दानम् : ए.के. शर्मा
लखनऊ, 7 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य नगरविकास–ऊर्जा मन्त्री ए.के.शर्मणः विद्युत्बिलराहत्योजनाया अन्तर्गतं उपभोक्तृभ्यः पुनरपि महान् उपशमनं दातुं महत्त्वपूर्णं निर्णयं कृतवन्तः। पूर्वं ३१ मार्च् २०२५ तः परं आंशिकभुगतानं कृतवन्तः उपभोक्तारः अस्याः योजनायाः क्षेत्रात् बहिर्भूताः आसन्, येन अनेकाः उपभोक्तारः योजनाफलं न प्राप्नोति स्म।
विभिन्नजनपदानां परिसंचरणकाले, विद्युत्बिलरक्षणशिविराणां निरीक्षणवेलायां च बहवः उपभोक्तारः मन्त्रिणं प्रति निवेदनम् अकुर्वन्— “अप्रैल्–मे–जून् मासेषु वयं किञ्चित्किञ्चित् भुगतानम् अवश्यम् अकुर्म, तथापि बहुलं बकायाराशिः शेषा अस्ति; अतः अस्मभ्यं अपि योजनाफलं दातव्यम्।”
राज्यसरकारस्य प्रवक्त्रा उक्तम् यत् उपभोक्तॄणां एतां वेदनां वस्तुस्थितिं च मनसि निधाय ऊर्जा मन्त्री ए.के.शर्मा महोदयेन अत्यन्तसंवेदनशीलतया अधिकारिणः त्वरितं निर्देशिताः यद् “एतेषां सर्वेषां उपभोक्तॄणां योजनालाभः न वाञ्छनीयः।”
ते स्पष्टमवदन्— सरकारस्य लक्ष्यं अधिकतमजनानां राहतप्रदानमेव; अतः ये उपभोक्तारः किञ्चित् भुगतानम् अपि कृतवन्तः किन्तु अद्यापि बकायदाराः सन्ति, तेऽपि योजनालाभं प्राप्नुयुः।
मन्त्रिणः निर्देशक्रमेण अद्य ३० नवम्बर् २०२५ पर्यन्तं भुगतानं कृतवन्तः सर्वेऽपि उपभोक्तारः विद्युत्बिलराहत्योजनायां सम्मिलिताः सन्ति। अस्य निर्णस्य फलस्वरूपं विशालसंख्यकाः उपभोक्तारः प्रत्यक्षलाभं प्राप्स्यन्ति। जनहितार्थं कृतम् एतत् महत्त्वपूर्णं निर्णयं प्रदेशव्यापिनः उपभोक्तृजनाः हृष्टाः सन्तः ऊर्जा मन्त्रिणं प्रति कृतज्ञतां व्यक्तवन्तः, उक्तवन्तश्च— “मन्त्रिणा वास्तवमेव जनसमस्याः अवगत्या राहतप्रदानाय सार्थकः प्रयासः कृतः।”
सर्वकारस्य एषः उपक्रमः उपभोक्तृहितस्य संवेदनशीलप्रशासनस्य च स्पष्टा दृष्टान्तः इति मन्यते।
---------------
हिन्दुस्थान समाचार