काशी तमिल संगमः: तमिलनाडुतः आगतश्चतुर्थस्समूहश्श्री काशी विश्वनाथ मंदिरे आकरोद् दर्शनं पूजनञ्च
—धाम्नोऽन्नक्षेत्रे प्रसाद ग्रहणं कृतवान् ,काश्याः सेवा-परंपरा अतिथि-भावना इत्येभिः परिचितः वाराणसी,07 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां प्रवर्तमानस्य काशी–तमिल–संगमस्य चतुर्थे संस्करणे भागग्रহণाय तमिलनाडु-प्रदेशस्य चतुर्थ-दलम् अपि व
c9473d9663044aaf42a7e9a8c68aff9a_276309792.jpg


c7a9c9c700ca7610c0c5c732fc1584b8_1908796116.jpg


—धाम्नोऽन्नक्षेत्रे प्रसाद ग्रहणं कृतवान् ,काश्याः सेवा-परंपरा अतिथि-भावना इत्येभिः परिचितः

वाराणसी,07 दिसम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां प्रवर्तमानस्य काशी–तमिल–संगमस्य चतुर्थे संस्करणे भागग्रহণाय तमिलनाडु-प्रदेशस्य चतुर्थ-दलम् अपि वाराणसीम् आगतम्। अस्मिन् चतुर्थे दले पञ्चाशत् अध्यापकाः सन्ति, ये विद्यालयेषु तमिल-भाषां शिक्षयन्ति।

चतुर्थ-दलम् अपराह्णे श्रीकाशीविश्वनाथ-दरबारम् आगतम्। दलस्य धाम-प्रवेशकाले एव मन्दिर-न्यासस्य अधिकारिणां पर्यवेक्षणे शास्त्रिभिः पुष्प-वर्षया वेद-ध्वनिभिश्च अतिथीनां स्वागतं कृतम्। ततः अनन्तरं मन्दिर-प्रशासनस्य अधिकारिणः दलस्य सदस्येभ्यः दर्शन–पूजन-सेवां प्रदत्तवन्तः।

ततः परं दलम् श्रीकाशीविश्वनाथ-धामस्य भव्ये कॉरिडॉर भ्रमणार्थं नीतम्। भ्रमणकाले दलाय धामस्य ऐतिहासिक-स्वरूपस्य, स्थापत्य-कलायाः, नवनिर्मित-सुविधानां, निरन्तरं वर्धमानस्य श्रद्धालुसमूहस्य च विषये विस्तृतं वर्णनं प्रदत्तम्।

भ्रमणस्य अनन्तरं सर्वेषां अतिथीनां कृते मन्दिर-परिचालिते अन्नक्षेत्रे भोजनस्य व्यवस्था कृता। अत्र परोसे प्रसादं सर्वे अतिथयः आदरात् आस्वादितवन्तः। अस्मिन् अवसरे दलं काश्याः सेवा-परम्परायाः अतिथि-सम्भावनायाश्च साक्षात् अनुभवं लब्धवान्।

---------------

हिन्दुस्थान समाचार