Enter your Email Address to subscribe to our newsletters

‘असंग्रहणीय’ रूपेण चिह्नितनाम्नां वर्तते अपसारणस्य संभावनाकोलकाता, 09 दिसंबरमासः (हि.स.)।पश्चिमबंगालराज्ये प्रवर्तमाने विशेषगहनपुनरीक्षणप्रक्रियायां SIR इत्यस्य अन्तर्गतं राज्ये समग्रे समग्रतया 56.37 लक्षमतदातृनामानि असंग्रहणीयानि इति चिह्नितानि। अर्थात् एतेषां व्यक्तीनां एन्यूमरेशनफॉर्म् न समर्पितः। अतः स्पष्टं यत् एतेषां नामानि मतदातृसूच्याः अपाक्रियन्ते। मुख्यनिर्वाचनाधिकारिणः कार्यालयस्य वरिष्ठाधिकारीकः मंगलवासरे उक्तवान् यत् अद्यतनपर्यन्तं राज्ये 7.66 कोटीनि नामांकनपत्राणि वितरितानि।
अधिकारीकस्य वचनानुसारं यानि 56 लक्षाधिकानि नामानि असंग्रहणीयानि इति प्राप्तानि, तानि प्रारूपमतदातृसूचौ न स्थाप्यन्ते। एतेषु 23.98 लक्षं दिवंगतमतदातृनामानि, 10.95 लक्षं यानां मतदातॄणां पत्त्रं न ज्ञातम्, 19.65 लक्षं अन्यत्र स्थानान्तरिताः मतदातारः, 1.32 लक्षं द्विवारितानि नामानि तथा 47 सहस्र 832 अन्यकारणैः अपसारिताः प्रविष्टयः अन्तर्भवन्ति।
एतेन सह भारतीयनिर्वाचनायोगेन बूथस्तराधिकारीमोबाइलअनुप्रयोगः अपि अद्यतनितः। अस्य प्रमुखोद्देशः मतदातृसूचौ विद्यमानानां मिथ्याद्विवारितनामानां च परीक्षां कृत्वा तेषां निवारणम्। अधिकारीकः उक्तवान् यत् नवीनसंस्करणे सत्यापनप्रक्रिया अधिकं सरलतया प्रभावोत्पादकत्वेन च सम्पन्ना भवति।
राज्ये प्रवर्तमाने अस्मिन् समग्रअभियानेन मतदातृसूची पूर्णतया शुद्धा सटीका च भवतु, यथा आगामिनिर्वाचनेषु काचित् अपि त्रुटिः भ्रमः वा न जायते—एवमेव उद्देश्यः निरूपितः।
----------------
हिन्दुस्थान समाचार