बीएचयू इत्यस्य डॉ. ओम प्रकाश हैन्स ज़ाइडेल फ़ाउंडेशनकार्यकारिणी सदस्याः नियुक्ताः
वाराणसी, 09 दिसंबरमासः (हि.स.) ।उत्तरप्रदेशस्य वाराणसीस्थिते काशीहिन्दुविश्वविद्यालये BHU जर्मनस्टडीज् विभागस्य असिस्टेंटप्रोफेसरः डा ओमप्रकाशः हैन्स् ज़ाइडेल् फाउण्डेशनस्य कार्यकारिणी सदस्यरूपेण नियुक्तः। अस्य नियुक्तेः विश्वविद्यालये गौरवपूर्णसि
डॉ ओम प्रकाश


वाराणसी, 09 दिसंबरमासः (हि.स.) ।उत्तरप्रदेशस्य वाराणसीस्थिते काशीहिन्दुविश्वविद्यालये BHU जर्मनस्टडीज् विभागस्य असिस्टेंटप्रोफेसरः डा ओमप्रकाशः हैन्स् ज़ाइडेल् फाउण्डेशनस्य कार्यकारिणी सदस्यरूपेण नियुक्तः। अस्य नियुक्तेः विश्वविद्यालये गौरवपूर्णसिद्धिरूपेण स्वागतं कृतम्। अस्मिन् नूतने पदे डा ओमप्रकाशः शैक्षणिकसहकारस्य सुदृढीकरणार्थं नानाविधानां प्रस्तावानां रूपरेखानिर्माणम् तेषां विकासक्रियान्वयनयोः दायित्वं च वहिष्यति। सः देशविदेशस्थैः शैक्षणिकसंस्थाभिः सह साझेदारसंघटनैश्च सह संशोधनसंवादसहकारविस्तारस्य नूतनानां अवसराणां अन्वेषणे प्रमुखभूमिकां निर्वहतुं अपेक्ष्यते। तदतिरिक्तं पूर्वविद्यार्थिभिः सञ्चालितानां प्रकाशनानां प्रोत्साहनम् तेषु एकं संयुक्तम् अकादमिकमञ्चं प्रदातुं च तेन योगदानं दास्यते।

एषा सूचना विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन मंगलवासरे प्रदत्ता। उक्तं यत् हैन्स् ज़ाइडेल् फाउण्डेशन स्वीयाः वैचारिकव्यावहारिकक्रियाः पञ्च प्रमुखविभागैः सञ्चालयति। तेषु अकादमी फॉर पॉलिटिक्स एंड करंट अफेयर्स इति विभागः समकालीनराजनीतिकसामाजिकअन्तरराष्ट्रीयविषयेषु अनुसन्धानं करोति। इंस्टीट्यूट फॉर पॉलिटिकल एजुकेशन इति विभागः नागरशिक्षायै लोकतांत्रिकमूल्यानां नेतृत्वविकासस्य च कृते विविधानि प्रशिक्षणकार्यक्रमाणि आयोजयति।

इंस्टीट्यूट फॉर स्कॉलरशिप प्रोग्राम्स इति विभागः प्रतिभाशालीनां युवानां छात्रवृत्तिदानद्वारा प्रोत्साहनं करोति, तथा इंस्टीट्यूट फॉर इंटरनेशनल कोऑपरेशन वैश्विकस्तरे सुशासनं लोकतन्त्रं आत्मनिर्भरता सततविकासं च लक्ष्यीकृत्य नानापरियोजनाः सञ्चालयति। इंस्टीट्यूट फॉर यूरोपियन एंड ट्रांसअटलांटिक डायलॉग इति विभागः यूरोप् अमेरिका कनाडा इत्येतयोः मध्ये सहयोगं परस्परबोधं च वर्धयितुं महत्वपूर्णकार्यं करोति।

कार्यालयानुसारं एतेषां सर्वेषां क्रियाणां केन्द्रीयप्रशासनसेवाः समर्थनं ददति। बान्ज् मठस्य शैक्षिककेन्द्रं म्यूनिखस्थितं कॉन्फ्रेन्स् सेंटर् च प्रशिक्षणसंवादयोः प्रमुखस्थाने इति निर्दिष्टम्। फाउण्डेशनस्य कार्याणां मूलाधारः नागरिकराज्यसम्बन्धः वैश्वीकरणक्षेत्रीयपहिचानयोः संतुलनम् अन्ताराष्ट्रियसंघर्षाणां प्रवासनस्य च परिणामस्वरूपे विकसिते नूतने वैश्विकपरिदृश्यमध्ये यूरोपस्य भूमिका तथा भाविप्रजासु सामूहिकदायित्वबोधः इत्येते विषयाः सन्ति।डा ओमप्रकाशस्य नियुक्तौ विभागे हर्षपूर्णं वातावरणम् अस्ति।

हिन्दुस्थान समाचार