मध्‍ यप्रदेशः किविश्वप्रसिद्धे खजुराहो-नगर्याम् अद्य मुख्यमन्त्रिणः अध्यक्षतायां मन्त्रिपरिषदः सभा भविष्यति
महिला-सम्मेलने मुख्यमन्त्री ‘लाडलीबहन-योजना’ अंतर्गतं 1857 कोटि रूप्यकाणां स्थानांतरणं लाडलीभगिन्यानां वित्तकोशेषु करिष्यति। भोपालम्, 09 दिसम्बरमासः (हि.स.)। मध्‍यप्रदेशस्य मुख्यमन्त्री डा० मोहनयादवः स्वसर्वैः मन्त्रिभिः सह एकदिवसपूर्वमेव खजुराहो-
मुख्‍यमंत्री डॉ मोहन यादव


महिला-सम्मेलने मुख्यमन्त्री ‘लाडलीबहन-योजना’ अंतर्गतं 1857 कोटि रूप्यकाणां स्थानांतरणं लाडलीभगिन्यानां वित्तकोशेषु करिष्यति।

भोपालम्, 09 दिसम्बरमासः (हि.स.)। मध्‍यप्रदेशस्य मुख्यमन्त्री डा० मोहनयादवः स्वसर्वैः मन्त्रिभिः सह एकदिवसपूर्वमेव खजुराहो-प्रदेशे आगत्य वसति स्म। प्रवासस्य द्वितीये दिवसे, अद्य सोमवासरे, खजुराहो-कन्वेन्शन्-केन्द्रे मुख्यमन्त्रिणः अध्यक्षतायां मन्त्रिपरिषदस्य सभा भविष्यति। तत्रैव मुख्यमन्त्री महाराजा-कन्वेन्शन्-केन्द्रे महाराज-छत्रसालस्य सरदार-वल्लभभाई-पटेलस्य च प्रतिमयोः अनावरणम् अपि करिष्यति। एवं च छतरपुरजनपदस्य राजनगरविधानसभा-क्षेत्रे स्थितायां सतीकीमढियायां आयोजिते महिला-सम्मेलने अपि सम्मिलितो भविष्यति।

सम्मेलने मुख्यमन्त्री डा० यादवः ‘मुख्यमन्त्री-लाडलीबहना-योजना’ अन्तर्गतं प्रदेशस्थितानां एककोटि 26 लक्षाधिकानां लाडली भगिन्यानां वित्तकोशेषु प्रायः 1857 कोटि 62 लक्ष रूप्यकाणां स्थानांतरणं करिष्यति। तेन सह विविधानि विकासकार्यानि लोकार्पण-शिलान्यासौ च करिष्यन्ते। अस्याः योजनायाः प्रयोजनम्—महिलानां आर्थिकसशक्तीकरणम्, पारिवारिकनिर्णयेषु तेषाम् अधिकारबलवर्धनम्, स्वास्थ्य-पोषणाद्यनां सतत-परिष्कारः चेति।

अस्यां योजनायां राज्यस्य स्थानीयनिवासिन्यः विवाहिताः महिलाः, दरिद्राः, विधवाः, तलाकप्राप्ताः, परित्यक्ताश्च महिलाः अधिकारिण्यः सन्ति। आवेदनवर्षस्य 1 जनवरी-दिवसे 21 वर्षात् 51 वर्षपर्यन्तं वयः यस्याः, सा पात्रा भविष्यति।

योजनारम्भे मासिकं 1000 रूप्यकाणां आर्थिकसहायता प्रदत्ता आसीत्, यत् अक्टुबर् 2023 तमे मासे 1250 रूप्यकाणि कृतम्। तदनन्तरं नवम्बर् 2025 तमादारभ्य 250 रूप्यकाणां पुनर्वृद्धिः कृतासीत्। अधुना सामान्य-हितग्राहिण्यः 1500 रूप्यकाणि प्रतिमासं प्राप्नुवन्ति, सामाजिकसुरक्षा-पेंशनं प्राप्नुवतीनां तु 900 रूप्यकाणि मासिकं प्रदत्तानि भवन्ति। अतिरिक्तरूपेण अगस्त् 2023, अगस्त् 2024 तथा अगस्त् २०२५ इति त्रिकालं विशेषसहायारूपेण 250-250 रूप्यकाणि अपि बहूभ्यः दत्तानि।

जून् 2023 तः नवम्बर् 2025 पर्यन्तं योजनायाः त्रिंशत् देय-राशिं नियमितरूपेण दत्ताः। अधुना दिसम्बर् 2025 तमे मासे 31-तमदेयराशिः प्रदीयते। सर्वाः भुगतानाः डीबीटी-पद्धत्या आधार-सक्रिय-कोशेषु करणीयाः, येन लाभार्थिन्यः सुरक्षितरूपेण प्रत्यक्षं धनं प्राप्नुयुः।

हिन्दुस्थान समाचार / Dheeraj Maithani