काशी विश्वनाथ धाम्नो गंगा द्वारे चलितं स्वच्छताऽभियानम्
नमामि गंगे अथ नगर निगम कर्मिणो मृत पशूनां शवस्य कारितं निस्तारणम् वाराणसी, 9 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां मंगलवारस्य दिने नमामि गङ्गे नगरनिगमयोः दलाभ्यां श्रीकाशीविश्वनाथधामस्य वर्षगान्तरात्पूर्वं ललिताघाटे गङ्गाद्वारे गङ्गातटे विद
ललिता घाट पर स्वच्छता अभियान


नमामि गंगे अथ नगर निगम कर्मिणो मृत पशूनां शवस्य कारितं निस्तारणम्

वाराणसी, 9 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां मंगलवारस्य दिने नमामि गङ्गे नगरनिगमयोः दलाभ्यां श्रीकाशीविश्वनाथधामस्य वर्षगान्तरात्पूर्वं ललिताघाटे गङ्गाद्वारे गङ्गातटे विद्यमानानां नानाविधानां मलिनतां निवारणकार्यं कृतम्।

घाटतटे पशूनां मरणशरीराणि उपस्थिता इति सूचना प्राप्त्या सत्वरं कार्यं कृत्वा मृतपशूशरीराणि निरस्यन्ते स्म। सह जनानां प्रति अपीलाकारा कृताऽभूत यत् स्वगृहे पालयितपशूनां मरणे तेषां शरीराणि गङ्गातटे न विसर्जनीयानि।

नमामि गङ्गे काशिक्षेत्रस्य संयोजकः राजेशशुक्ल इति उक्तवान् यत् वारिप्लावनस्य अपगमे नानाविधा मलिनता पशूशरीराणि च मृत्तिकायां निहितानि सन्ति इति। अस्याः स्थितेः संग्रहेण ललिताघाटे शोधनकार्यं कृतम्। स उक्तवान् यत् गङ्गातटे स्वच्छताया संदर्भे जनानां जागरूकता अपेक्ष्यते। वयं स्वपालितपशूनां शवानि गङ्गायां न प्रक्षिप्य प्रकृतेः पर्यावरणस्य च साहायका भूयाम।

स्वच्छताअभियाने नगरनिगमनियोजितसुपरवाइजर् कामेश्वरसेठ दिनेशचौधरी सुनीलमोहन सेवि महेन्द्रसाहनि इत्यादयः अपि सहभागितां कृतवन्तः।

---------------

हिन्दुस्थान समाचार