मोहन भागवतोऽद्य चेन्नईनगरे यूनां चर्चा कार्यक्रमे निर्वक्ष्यति भागम्
चेन्नई, 9 दिसंबरमासः (हि.स.)। राष्ट्रीय स्वयंसेवकसङ्घस्य प्रमुखः डा मोहन भागवतः गतरात्रौ तमिलनाडुप्रदेशस्य चेन्नैनगरं प्रविष्टवान्। अद्य ते चेन्नैनगरस्य तिरुवनमियूरस्थे रामचन्द्र कन्वेन्शनकेंद्रे स्थाने आयोजिते युवा चर्चा कार्यक्रमे भागं ग्रहीष्यन्
मोहन् भागवत आज चेन्नई में युवाओं से संवाद कर रहे हैं


चेन्नई, 9 दिसंबरमासः (हि.स.)। राष्ट्रीय स्वयंसेवकसङ्घस्य प्रमुखः डा मोहन भागवतः गतरात्रौ तमिलनाडुप्रदेशस्य चेन्नैनगरं प्रविष्टवान्। अद्य ते चेन्नैनगरस्य तिरुवनमियूरस्थे रामचन्द्र कन्वेन्शनकेंद्रे स्थाने आयोजिते युवा चर्चा कार्यक्रमे भागं ग्रहीष्यन्ति। सङ्घस्य प्रदत्तसूचनां अनुसारं कार्यक्रमे भागग्रहणाय सहस्रपञ्चशता युवानां पञ्जीकरणं कृतम्। सङ्घेन प्रोक्तं यत् डा भागवतः चेन्नैनगरस्थे सङ्घराज्यमुख्यालये निवसिष्यन्ति तथा संस्थात्मकोपवेशनेषु भागं गृह्णीयुः। श्वः ते तिरुचिरापल्लीनगरं गमिष्यन्ति यत्र सङ्घकार्यक्रमान् समाप्य एकादशे डिसेम्बरमासे कलकतनगरं गमिष्यन्ति।

---------------

हिन्दुस्थान समाचार