प्रधानमंत्री दूरदर्शनस्य ‘सुप्रभातम्’ कार्यक्रममुक्तवान् भारतीय संस्कृतेः संगमम्
नवदिल्ली, 09 दिसंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना दूरदर्शनस्य सुप्रभातम् इति कार्यक्रमे प्रतिदिनं प्रसारितानि संस्कृतसुभाषितानि निर्दिश्य उक्तं यत् एषा परम्परा भारतस्य सांस्कृतिक आध्यात्मिक च विरासतायाः निरन्तरत्वं दर्शयति। सुप्रभातम्
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 09 दिसंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना दूरदर्शनस्य सुप्रभातम् इति कार्यक्रमे प्रतिदिनं प्रसारितानि संस्कृतसुभाषितानि निर्दिश्य उक्तं यत् एषा परम्परा भारतस्य सांस्कृतिक आध्यात्मिक च विरासतायाः निरन्तरत्वं दर्शयति। सुप्रभातम् इति कार्यक्रमः प्रतिमुहूर्तं संस्कारान् मूल्यं संस्कृतिं च सुन्दररूपेण संयोजयति।

प्रधानमन्त्री मोदिना मंगलवासरे एक्स इत्यत्र प्रकाशिते स्वसन्देशे एतत् अभिहितम्। तेन संस्कृतेन लिखिते सन्देशे निर्दिष्टं यत् दूरदर्शनस्य सुप्रभातम् कार्यक्रमे प्रतिदिनं एकं सुभाषितं प्रस्तुत्यते यस्मिन् जीवनसम्बद्धाः विविधानि पक्षाणि विवृण्वन्ति। सः स्वीयपोस्टे संस्कृतश्लोकमपि लिखितवान्।

प्रधानमन्त्री स्वपटले अवदत् यत् सुप्रभातम् कार्यक्रमे प्रसारिताः ते श्लोकाः न केवलं भारतीयसंस्कृतेः समृद्धिं प्रकाशयन्ति अपि तु नवयुवान् भारतीयज्ञानपरम्परायाः प्रति आकर्षयन्ति। भारतीयभाषासु विशेषतः संस्कृतेः अन्तःस्थितं ज्ञानं चिन्तनं च अद्यापि समाजं प्रेरयति।

---------------

हिन्दुस्थान समाचार