भारतमातरं प्रति समर्पणं, त्यागः अदम्य साहसः इत्येषां शाश्वत भावनास्ति वंदेमातरम् : राधाकृष्णन्
नव दिल्ली, 9 दिसंबरमासः (हि.स.)।राज्यसभायां मंगलवारे वन्देमातरम् इत्यस्य शतपञ्चाशदधिकशततमवर्षगान्तरस्य चर्चापूर्वं सभापतिः सीपी राधाकृष्णन् स्वप्रारम्भिकोद्बोधने अस्य गीतस्य राष्ट्रस्य आत्मा स्वातन्त्र्यसंग्रामस्य च स्पन्दनम् इति अभिव्याहरत्। स उवा
राज्यसभा के सभापति सी. पी. राधाकृष्णन मंगलवार को वंदे मातरम् पर चर्चा से पूर्व सदन को संबोधित करते हुए


नव दिल्ली, 9 दिसंबरमासः (हि.स.)।राज्यसभायां मंगलवारे वन्देमातरम् इत्यस्य शतपञ्चाशदधिकशततमवर्षगान्तरस्य चर्चापूर्वं सभापतिः सीपी राधाकृष्णन् स्वप्रारम्भिकोद्बोधने अस्य गीतस्य राष्ट्रस्य आत्मा स्वातन्त्र्यसंग्रामस्य च स्पन्दनम् इति अभिव्याहरत्। स उवाच यत् वन्देमातरम् केवलं गीतं न, किन्तु भारतमातुः प्रति समर्पणत्यागयोः अदम्यशौर्यस्य च नित्यप्रेरणारूपा भावना, या दास्ययुगे अपि कोटीनां भारतीयानां हृदयेषु स्वाधीनताया ज्योतिं जीवितवती।

सभापतिः अवदत् यत् बङ्किमचन्द्रचट्टोपाध्यायेन विरचितं तत् कालजयं गीतं उपनिवेशवादभारस्तेन आकुलिते काले जातम्, किं तु शीघ्रमेव राष्ट्रस्य सामूहिकस्पन्दनं जातम्। असौ अपि उवाच यत् एतत् गीतं धर्मभाषाभौगोलिकसीमानां अपेक्षां विहाय सर्वं राष्ट्रं एकस्मिन्सूत्रे निबध्नाति स्म।

राधाकृष्णनः सस्मार यत् स्वातन्त्र्यसैनिकानां कृते वन्देमातरम् केवलं प्रेरणामात्रं न, किं तु बहूनां वीराणां अन्तिमनिनादः आसीत् यदा ते हसन्तः हसन्त एव फांस्याः वेदिकाम् आरोहन्तः भारतस्वाधीनतास्वप्नं हृदि वहन्तः अस्य उच्चारणं कुर्वन्ति स्म। स अवदत् यत् एतेषां ज्ञाताज्ञातबलिदानिनां तपोभूमिः अस्य गीतस्य प्रत्येकपङ्क्तौ अद्यापि अनुनादयति, च अस्मान् स्मारयति यत् स्वाधीनता अटुटसंकल्पेन मातृभूमेः प्रति अनन्यप्रेम्णा च प्राप्ता।

सभापतिः महाकवेशु सुब्रमण्यभारतेः तां पङ्क्तिमपि उद्धृतवान् यस्यां स उक्तवान् यत् वन्देमातरम् इत्यस्य स्वरः विश्वमण्डले तेजस्विताया प्रकाशं विसृजति। सः उक्तवान् यत् “वन्देमातरम् एकः प्रणः, अस्माकं परिचयस्य, अस्माकं एकतायाः, अस्माकं सामूहिकभविष्यस्य च।”

देशस्य स्वाधीनतायै प्राणान् न्योच्छावरयतां सर्ववीराणां नमनपूर्वकं सभापतिः अवदत् यत् तेषां त्यागः केवलं इतिहासभागः न, अपितु राष्ट्रस्य अनन्तप्रेरणाशक्तिः। स उक्तवान् यत् अस्य विशेषचर्चाया आरम्भे अस्माभिः त्रयः सूत्राः अवश्यमवलोकनीयाः—एकता अस्माकं शक्ति, बलिदानं अस्माकं मार्गः, भारतमाता अस्माकं आत्मा।

राधाकृष्णनः सदनं प्रति आह्वानं कृतवान् यत् वयं सर्वे एकेन स्वरिणा संकल्पं कुर्मः—राष्ट्रसेवायाः सत्यनिष्ठतां, एकतया अग्रगमनम्, च गौरवेण उच्चारणम्—वन्देमातरम्। वन्देमातरम्। वन्दे

मातरम्।

---------------

हिन्दुस्थान समाचार