असम आंदोलनस्य हुतात्मनां स्मृतौ निर्माष्यमाणं ‘हुतात्मस्मारकं ’ भविष्यति भव्यम् : मुख्यमंत्री
गुवाहाटी, 09 दिसम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्त बिस्व सरमा इत्यनेन मंगलवासरे उक्तं यत् निर्माणाधीनं शहीदस्मारकम् सामान्यभवनं न, अपि तु आई असोमी इत्यस्य अस्मितारक्षणाय प्राणान् अर्पितवन्तां वीरवीरांगनानां जीवद्विरासतिरूपम् अस्ति।
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 09 दिसम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्त बिस्व सरमा इत्यनेन मंगलवासरे उक्तं यत् निर्माणाधीनं शहीदस्मारकम् सामान्यभवनं न, अपि तु आई असोमी इत्यस्य अस्मितारक्षणाय प्राणान् अर्पितवन्तां वीरवीरांगनानां जीवद्विरासतिरूपम् अस्ति। मुख्यमन्त्रिणा डा सरमेन अद्य हुतात्मभ्यः श्रद्धाञ्जलिः अर्पिता।

मुख्यमन्त्रिणा सामाजिकमाध्यमे निर्माणस्थलस्य चित्रं प्रकाशित्य एतदुक्तं यत् एतत् स्मारकम् असम आन्दोलनस्य महतां हुतात्मनां प्रति समर्पितं स्थायि प्रतीकम् भविष्यति। तेन अवोचत् यत् एतत् भव्यं स्मारकम् असम आन्दोलनस्य अष्टशतान् पञ्चाशताधिकान् शहीदानां स्थायि निवासरूपेण निर्मीयते, यत् राज्यमन्त्रालयेन तेषां सर्वेषां नायकानां प्रति कृतं श्रद्धाञ्जलिस्वरूपम् यस्य बलिदानेन आधुनिकस्य असमप्रदेशस्य दिशा निरूपिता।

_______________

हिन्दुस्थान समाचार