झांसी : कान्हा उपवनं करोति मुख्यमंत्रिणः इच्छां साकारम्, गौ परिक्रमा पंथाः आकृषति जनानां ध्यानम्
वैदिक कालस्य गां प्रत्याधारितं प्रारूपों विद्यालयीयच्छा त्राः पर्यटकाश्च पश्यन्ति सजीवं, शकटारूढाः स्वीकुर्वन्ति आनन्दम् झांसी, 09 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशानुसारं चत्वारः गोशालाः आदर्शरूपेण विकसितव्याः इति
कोल्हू का लुफ्त उठाते छात्र


उपवन में कोल्हू चलाता हुआ बैल


वैदिक कालस्य गां प्रत्याधारितं प्रारूपों विद्यालयीयच्छा त्राः पर्यटकाश्च पश्यन्ति सजीवं, शकटारूढाः स्वीकुर्वन्ति आनन्दम्

झांसी, 09 दिसंबरमासः (हि.स.)।

मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशानुसारं चत्वारः गोशालाः आदर्शरूपेण विकसितव्याः इति संकल्प्य झांसीनगरनिगमस्य अद्वितीया पहलः सर्वेषां ध्यानं आकर्षयति। झांसीनगरनिगमस्य बिजौलिस्थाने कान्हा उपवन गोवंशाश्रयस्थलम् प्रायः वर्षपूर्वं गोपर्यटनकेन्द्ररूपेण विकसितम्। अस्मिन् काले जनानां रूचिः वर्धिता तथा अत्र विशेषतया विद्यार्थिनां आगमनं द्रष्टुं शक्यते।

गोपर्यटनकेन्द्रे निर्मितः गोपरिक्रमापथः विद्यार्थिनां आगन्तुकानां च पुरातनभारतीयसामाजिककृषिपद्धत्याः गोवंशाधारितानां विविधानां उदाहरणानां जीवितं प्रदर्शनं करोति। अस्यां परिक्रमायां स्थानीयनस्लस्य गोवंशाः गिर् साहीवाल् हरियाणा इत्यादीनां नस्लानां च गोवंशाः उपलभ्यन्ते। गोवंशानां विशेषताः प्रकाशयितुं अत्र पृथक् साइनेज् अपि स्थापिताः।

कान्हा उपवने अष्टशतानि अधिकानि अनाथगोवंशानां संरक्षणं क्रियते। अत्र अनाथगोवंशसंरक्षणं तथा नस्लसुधारकार्यं च सम्पन्नं भवति। गोवंशगोबरात् निर्मीयमाणस्य गोकाष्ठस्य अन्येषां च नूतनानां प्रयोगानां अवलोकनम् अपि अत्र आगतैः जनैः कर्तुं शक्यते।

नूतनां प्रयत्नाम् आरभ्य नगरनिगमेनेदं सुनिश्चितम् यत् वैदिककालस्य गोवंशाधारितं परिवेशं जीवद्रूपेण प्रदर्श्यते, येन जनानाम् गोसंरक्षणे जागरूकता वर्धते। अत्र आगच्छन्तः पर्यटकाः विद्यार्थीजनाः च बैलगाडीसवाऱ्याः अनुभवम् अपि लभन्ते। गोपरिक्रमापथे गोवंशाधारितं कोल्हू, कूपात् जलोत्पादनार्थम् उपयुक्तः रहट्, कृषिक्षेत्रे बैलानां प्रयोगः इत्यादीनां क्रियाणां जीवन्तं प्रदर्शनं द्रष्टुं शक्यते।

नगरनिगमझांसेः पशुकल्याणाधिकृतः डा राघवेन्द्रसिंह अवदत् यत् मुख्यमन्त्रिणः निर्देशः अस्ति यत् सर्वाः गोशालाः पर्यटनस्थलरूपेण विकसिताः स्युः तथा आत्मनिर्भराः भवन्तु। बिजौलिस्थिते कान्हा उपवने गोपरिक्रमापथः निर्मितः, अत्र बैलगाडी रहट् कोल्हू इत्यादीनि प्रदर्शितानि। अस्य माध्यमेन अस्माकं पूर्वजानां गोवंशाधारितपद्धतेः विषये विस्तृतज्ञानम् लभ्यते। विद्यार्थीजनाः पर्यटकाः च अस्मिन् विषये महान्तम् उत्साहं दर्शयन्ति।

---------------

हिन्दुस्थान समाचार