वंदे मातरं प्रति न, एकेश्वरवादस्य विरुद्धां पंक्तिं प्रति आपत्तिः - मौलाना मदनी
नवदिल्ली, 09 दिसंबरमासः (हि.स.)।संसदि वन्देमातरम् विषये जातायां चर्चायां जमीअत् उलंमा ए हिन्द् संस्थायाः अध्यक्षः मौलाना अरशद्मदनी अवदत् यत् अस्माकं कस्यापि वन्देमातरम् पाठने वा गायने आपत्तिः नास्ति, किन्तु अस्य गीतस्य येषु पङ्क्तिषु एकेश्वरवादविरु
Maulana Arshad Madani,President of Jamiat Ulema-e-Hind


नवदिल्ली, 09 दिसंबरमासः (हि.स.)।संसदि वन्देमातरम् विषये जातायां चर्चायां जमीअत् उलंमा ए हिन्द् संस्थायाः अध्यक्षः मौलाना अरशद्मदनी अवदत् यत् अस्माकं कस्यापि वन्देमातरम् पाठने वा गायने आपत्तिः नास्ति, किन्तु अस्य गीतस्य येषु पङ्क्तिषु एकेश्वरवादविरुद्धभावना दृश्यते, तासु अस्माकं असहमति अस्ति। मुसलमानः केवलम् एकं अल्लाहं एव उपासते, तस्य उपासने अन्यस्य कस्यचित् समावेशः न शक्यते।

सः पुनरुवाच यत् वन्देमातरम् गीतस्य कतिपयपङ्क्तयः धार्मिकविचारविशेषाधारिताः सन्ति, ये इस्लामीआस्थायाः विरुद्धाः। विशेषतः अस्य चत्वारः अन्तराः राष्ट्रं दुर्गामाता रूपेण प्रस्तौति, च उपासनासम्बद्धान् शब्दान् प्रयुञ्जते, यत् मुसलमानस्य मौलिकविश्वासस्य विरुद्धम्। तेन एतदपि उक्तं यत् भारतीयसंविधानम् (अनुच्छेद 25) प्रत्येकनागरिकाय धार्मिकस्वातन्त्र्यं, (अनुच्छेद 19) अभिव्यक्तिस्वातन्त्र्यं च दत्तम्। एतेषु अधिकारेषु निर्दिष्टं यत् कस्यापि नागरिकस्य धार्मिकविश्वासविरुद्धं नारेगीतादिकं स्वीकर्तुं बाध्यतां दातुं न शक्यम्।

मौलाना मदनी अवदत् यत् सर्वोच्चन्यायालयस्य अपि स्पष्टनिर्णयः अस्ति—कस्यापि नागरिकस्य धार्मिकविश्वासविरुद्धम् राष्ट्रगीतं वा अन्यत् किमपि गीतं गातुं बाधनं न कर्तव्यम्। सः अवोचत् यत् वतनप्रेम पृथग्वस्तु, तस्य उपासना पुनः पृथक् वस्तु। मुसलमानानां राष्ट्रे प्रति कियदधिकं प्रेम अस्ति, तदस्याः प्रमाणपত্রेण न मीयते। स्वाधीनतायुद्धे मुसलमानानां जमीअत् उलंमा ए हिन्द् संस्थाया वृद्धजनानां च याः बलिदानकथाः विशेषतया देशविभाजनविरोधिनीः प्रयत्नाः, ताः दिनस्य प्रकाशवत् स्पष्ठाः। स्वाधीनतापश्चात् अपि देशैकताअखण्डतयोः कृते तेषां प्रयासाः न विस्मर्तुं शक्यन्ते। वयं सर्वदा अवदाम यत् देशभक्तिः हृदयस्य सत्येन आचरणस्य च संबद्धा, न तु घोषणया।

मौलाना मदनी अवदत् यत् ऐतिहासिकदस्तावेजाः स्पष्टं दर्शयन्ति यत् 26 अक्टूबर 1937 तमे दिवसे रवीन्द्रनाथटागोरः पण्डितजवाहरलालनहेरूनाम लिखितपत्रे उपदिष्टवान् यत् वन्देमातरम् गीतस्य केवलौ प्रथमौ द्वौ छन्दौ एव राष्ट्रगीतरूपेण स्वीकरणीयौ, यतः अवशिष्टाः छन्दाः एकेश्वरवादीधर्माणां विश्वासस्य विरोधिनः। एतस्मात् आधारात् 29 अक्टूबर 1937 तमे दिनाङ्के कांग्रेसकार्यसमितिना निर्णयः कृतः यत् केवलौ द्वौ छन्दौ एव राष्ट्रगीतत्वेन माननीयौ। अतः अद्य टागोरनाम्नः आडम्बरपूर्वकदुरुपयोगेन सम्पूर्णगीतस्य गायनबाध्यतां कर्तुं यत् प्रयासः क्रियते, सः न केवलम् ऐतिहासिकसत्यानां अवमर्शनं, अपि तु राष्ट्रैकताभावनायाः अपमानः।

---------------

हिन्दुस्थान समाचार