Enter your Email Address to subscribe to our newsletters

मोरीगांवः (असमः), 01 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा॰ हिमन्त विश्वशर्मा इत्यनेन शनिवासरे मोरीग्रामविधानसभाक्षेत्रे आयोजिते कार्यक्रमे ‘मुख्यमन्त्री महिला उद्यमिता अभियान’ इत्यस्य अन्तर्गते लाभार्थिभ्यः प्रारम्भिकपूँजीरूपेण धनादेशपत्राणि वितरितानि। अस्याः योजनायाः उद्देश्यः स्वसहायतासमूहानां नारीणाम् ग्रामीणउद्यमिकाभावेन विकासः अस्ति।
अस्मिन् अवसरे क्षेत्रस्य समग्रतः ३६,३६७ लाभार्थिभ्यः धनादेषपत्रानि वितरितानि। मुख्यमन्त्रिणा आशा व्यक्ता यत् असमराज्यस्य महिलाः आत्मनिर्भरता-सशक्तीकरणयोः अस्याः सामूहिकस्वप्नस्य साकारं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता