उपराज्यपाल सिन्हा घाट्याः प्राक् गुलदाउदी थीम गार्डन इत्यस्य कृतं भ्रमणम्
श्रीनगरम्, 1 नवंबरमासः (हि.स.)।जम्मू काश्मीर केन्द्रशासितप्रदेशस्य उपराज्यपालः मनोज सिन्हा महोदयः शनिवासरे श्रीनगर नगरस्थे वनस्पति उद्यान नाम्नि स्थले स्थितस्य उपत्यकायाः प्रथमस्य “गुलदाउदी विषयक उद्यानस्य” निरीक्षणं कृतवान्। एषः उद्यानः अद्यतनसमये
उपराज्यपाल सिन्हा ने घाटी के पहले गुलदाउदी थीम गार्डन का किया दौरा


श्रीनगरम्, 1 नवंबरमासः (हि.स.)।जम्मू काश्मीर केन्द्रशासितप्रदेशस्य उपराज्यपालः मनोज सिन्हा महोदयः शनिवासरे श्रीनगर नगरस्थे वनस्पति उद्यान नाम्नि स्थले स्थितस्य उपत्यकायाः प्रथमस्य “गुलदाउदी विषयक उद्यानस्य” निरीक्षणं कृतवान्। एषः उद्यानः अद्यतनसमये जनसामान्याय उद्घाटितः अस्ति।

प्रवक्ता उक्तवान् यत् उपराज्यपालेन सह तेषां प्रमुख सचिवः मन्दीप भण्डारी, पुष्प कृषि उद्यान विभागस्य सचिवः जुबै्रर अहमद, श्रीनगरस्य उपायुक्तः अक्षय लाबरू नामकः च वरिष्ठ अधिकारी उपस्थिताः आसन्। प्रवक्ता अवदत् यत् पुष्प कृषि विभागेन विकसितः, शत कनाल परिमित प्रदेशे विस्तृतः एषः जम्मू काश्मीरस्य प्रथमः “गुलदाउदी विषयक उद्यानः” स्थानीयानां नागरिकानां पर्यटकानां च कृते शरदृतुकालीन पुष्पानां विस्तीर्ण संग्रहं प्रदर्शयति।

पूर्वं जम्मू काश्मीर राज्यस्य पूर्व मुख्यमंत्री फारूक अब्दुल्ला तथा मुख्यमंत्री उमर अब्दुल्ला महोदयौ अपि अस्य गुलदाउदी उद्यानस्य भ्रमणं कृतवन्तौ। अस्य गुलदाउदी विषयक उद्यानस्य उद्घाटनं मुख्यमंत्रीना उमर अब्दुल्लेन पञ्चविंशतितमे अक्टूबरमासे कृतम्।

हिन्दुस्थान समाचार