Enter your Email Address to subscribe to our newsletters

रायपुरम् 12 नवंबरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य स्वगृहराज्यस्य जशपुरजनपदस्य यात्रायाम् भविष्यति। निश्चितकार्यक्रमानुसारं मुख्यमन्त्री सायः प्रातः एकादशवादनत्रिंशन्मिनिटपर्यन्ते हेलिपैडतः जशपुरं प्रति प्रयास्यति। प्रायः द्वादशवादनैकमिनिटे ग्रामे मुण्डाडीह इत्यस्मिन् आगमिष्यति। ततः अपराह्णे द्विवादनचत्वारिंशन्मिनिटे कुनकुरीनगरे आयोजिते कार्यक्रमे सहभागी भविष्यति, सह गोकुलाष्टमी–पूजामहोत्सवे २०२५ इत्यस्मिन् अपि उपस्थितिं करिष्यति। ततः सायं पञ्चवादने राजधानीरायपुरं प्रति प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता