Enter your Email Address to subscribe to our newsletters

हरिद्वारम् 12 नवम्बरमासः (हि.स.) । अस्मिन् अवसरे भैरवालयेषु विशेषाणि अनुष्ठानानि आयोजितानि। विशेषारत्यां जनाः बहुसंख्यया सहभागीभूत्वा सुखसमृद्ध्यर्थं प्रार्थनाम् अकुर्वन्।
कालभैरवाष्टम्यां बुधवासरे तीर्थनगरे सर्वेषु भैरवालयेषु श्रद्धालूनां महान् समुदायः आसीत्। विशेषतः मायादेव्याः समीपे स्थिते भैरवालये, श्रवणनाथमठे स्थिते, हनुमानगढे स्थिते भैरवालये, तथा दक्षप्रजापतेः समीपे स्थिते भैरवालये च अधिकाः निबिडा अभवत्। प्रातःकाले भगवतः विशेषशृङ्गारः कृतः, आरती च निरूपिता। अहर्निशं भक्ताः दर्शनार्थं आगच्छन्तः आसन्। जनाः बहुविधैः पूजनार्चनैः भगवन्तं सम्पूज्य सुखसमृद्धिं प्रार्थितवन्तः। कनखलभैरवालये बटुकभैरवालये च विशेषाणि अनुष्ठानानि आयोजितानि।
हिन्दुस्थान समाचार / Dheeraj Maithani